________________
विभक्त्यर्थनिर्णये ।
१८१
रुभयोः समभिव्याहारः प्रामाणिक इति वच्यते । अन्यत्रापि दृश्यते द्वितीया यथा चैत्रं यावच्छौतमित्यादौ यावद्योगे । यावन्निपातस्योत्तरावधिकपरत्वमर्थः तदन्वयिनिरूपकत्वं द्वितौयार्थः अथ वा उत्तरावधिकपरत्वं खण्डशोऽर्थः अवध्यन्वयितादाम्यं द्वितौयार्थ इति यथावा" व कर्मप्रध्वस्तं फलति पुरुषाराधनम्टते" इत्यादौ ऋते योगे अत एव ऋते द्वितीया चेति चान्द्रं सूत्रम् ऋतेशव्दार्थो वच्यते "क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्गत्वं चे" ति परिभाषणात् स्तोकं पचतीत्यादौ हितौया नपुंसकत्वमजहल्लिङ्गेतर शब्दानां बोध्यं तेन सुखहेतुं पश्यतीत्यत्र न क्लीवत्वं न च क्रियाविशेषणस्य कर्मत्वे कर्मलकारापत्या स्तोकः पश्यते इति प्रयोगः स्यादिति वाच्यं यतोऽनुशासनेन क्रियाविशेषणवाचिप्रातिपदिकानां कर्मत्ववाचिदितौयाप्रकृतित्वं प्रत्याय्यते अत एव शब्दधर्मक्लीवत्वस्याप्यन्वय इति तत्र यदि विशोषण विभक्तेस्तादात्म्यमर्थस्तदा द्वितीयाया अपि यदि च तादात्म्यं संसर्गः विशेषणविभक्तिः साधुत्वार्थिका तदा द्वितीयापि साधुत्वार्थिका तवाद्ये तादात्म्यस्य फलान्वयेsपि न कर्मत्वं फलाम्बयिन आधेयत्वस्यैव तथात्वात् अन्यथा जलं न पचतोत्यत्र जलाधेयत्वाभावस्य विक्तित्यन्वये जलाधेयत्वाभावः पच्यत इति प्रयोगप्रसङ्गात् - द्वितीयपचेऽपि तादात्म्येन फलावयिनो न कर्मत्वं न हि
धावेण फलान्वयिकर्म भवति कालोपाधेः सककमात्र कर्मत्वापत्तेः किं तु तत्तत्संसर्गविशेषेण फलाSara ra संसर्गविशेषे तादात्म्यं नान्तर्भवति येन