SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १३२ द्वितीयाविभक्तिविचारः । इत्यादी जातिगतैकत्वबोधकत्वं बहुवचनस्य जात्याख्यायामित्यनुशासनप्रतिप्रभूतमेवेति नास्त्यननुशिष्टे विभक्तौनां लक्षणाऽपौति चेत् तर्हि नानार्थवद् द्वितीयाया आधेयत्वे भेदे च शक्तित्र्यु त्पत्तिवैचित्र्य कपदीपात्तयो - भेदयोगपद्येनान्वयबुध्यनुप्रवेश औत्सर्गिकः यत्र कट कर्मगोर्भिन्नयोः फलं कर्तृ भिन्ने वा फलं na भेदाधेयत्वयोर्व्यापारफलान्वय बुद्धिर्दितौयया जन्यते यत्र तु फलस्य व्यापाराधिकरणमाचगतत्वं तव भेदान्वयबाधादाधेयत्वमात्रं द्वितीया शक्त्या प्रतिपोद'यति न चानुशासनव्यत्यय इति बाधसापेचदृत्तित्वेनाश्राभिधायामेव लक्षणाव्यपदेशः बाधश्चात्र फलाधिकरणयत्किंचिद्यक्तिभिन्ने व्यापारो न वर्तत इति सामान याकारेणोपतिष्ठते । तेन व्यासज्यवृत्तिसंयोगादिफलhaira भेदाधेयत्वयोरुभयोर्नियमेनान्वय इति चैवचैव गच्छतीति न प्रयोग इति वदन्ति । इदमव चिन्त्यंयथा हि भेदस्य बाधे आधेयत्वमात्रं द्वितीया थक्या प्रतिपादयति तथा आधेयत्वस्य बाधे भेदमावमपि बोधयेत्तथा च गगनं पचति पश्यति वेति प्रयोगप्रसङ्गः विक्तित्तौ लौकिक विषयतायां च फले गगनाधेयत्वस्य बाधेऽपि गगनदृत्तिभेदस्य प्रतियोगितावच्छेदकतायाः फूत्कारादौ चाक्षुषे च व्यापारे निष्प्रत्पूहं विद्यमानत्वात् तस्मात्पुष्पवन्तपदवत् featयाया भेदाधेयत्वयोः शक्तिराधेयत्वमात्रे लक्षणेत्य- यमेव पक्षः साधीयान् न च दर्शितवार्त्तिकविरोध इति वाच्यं नियमः प्रकृतेषु वेति वाकारेणानास्थायाः स्वय 9 1
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy