________________
विभक्त्यर्थनिर्णये। मेव वार्तिकेन सूचनात् अन्यथा तिङामपि लक्षणा न स्यात् न चेष्टापत्तिरिति वाच्यं घटो नश्यतीत्यादौ शाब्दिकमते आश्रयस्य दार्शनिकमते यत्नादेस्तिङर्थस्य बाधेन प्रतियोगिनि प्रतियोगित्वे वा तिङो लक्षणां विनाऽ न्वयानुपपत्तिप्रमङ्गात् । ननु भवतु तिङो लक्षणा सुपोइननुशिष्टेऽर्थे लक्षणायाः क्वाप्यदर्शनाद् द्वितीयाया नाधेयत्वमात्र लक्षणा युज्यते अत एव सुम्विभक्तौ न लक्षणेति प्रवादः न च विषयत्वे हितौयाया लक्षणादर्शनान्नेदं युक्तम् अत एव घटं जानातौत्यादावन्वयबोधोपपत्तिरिति वाच्यं विषयत्वे हितौयाया लक्षणाभ्युपगमस्य निराकरिष्यमाणत्वात् घटं जानातीत्यादावन्वयबोधोपपत्तेर्वक्ष्यमाणत्वाच्चेति चेन्न हितीयाया लक्षणाभ्युपगस्थावश्यकत्वात् तथा हि शात्रवान् हिनस्ति हन्ति पुण्यं पुराकृतमित्यादौ नाशानुकूलव्यापारार्थकस्य हिंसहन्तेश्च फले नाशे शाबवाधेयत्वस्य पुण्याधेयत्वस्य च बाधात् द्वितीयायाः प्रतियोगिनि प्रतियोगित्वे वा यथाद शनं लक्षणाभ्यु पगम आवश्यकः अन्यथाऽन्वयबोधानुपपत्तेरिति । यदि च दर्शितस्थले प्रतियोगिता नाशश्च वयं धात्वर्थः तिर्थो व्यापारः शानवाधेयत्वस्य पुण्याधेयत्वस्य च फले प्रतियोगितायां सा नाशे सोऽनुकूलतया तिङर्थे व्यापार विशेषणीभूयान्वेतीत्यन्यत्रापि धातोः शब्दान्तरस्य वाऽर्थकल्पनयोपपत्ती द्वितीयाया लक्षणा न काप्यभ्युपयते इति तदा पूर्वोक्ताभिनवरीत्या आधेयखमाचं द्वितीयार्थस्तावतैव स्वं जानातीत्यादावन्वयबोधोपपत्तिः व्यासज्यवृत्तिसंयोगादी गम्यादिफले हितो