SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। १३१ इति सुपां तिङा च यथानुशासनं तत्रानुशासनानि नियमपर्यवसायौनि स च नियम एकवचनमेवैकत्वं द्विवचनमेव हित्वं द्वितीयैव कर्मत्वं बोधयतीत्याकारकस्तेन द्वितीयाभिन्ने कर्मत्वबोधकत्वाभावः पयवस्यति । नन्वेवं द्वितीया कर्मत्वमपहाय क्वचिगगनादिकमपि बोधयेत्तावताऽप्यक्तनियमभङ्गादित्यतः पक्षान्तरमाह नियम: प्रकतेषु वेति तथा च द्वितीया कर्मत्वमेव बोधयतीति नियमः स च यावन्तोऽनुशासनसिद्धा द्वितीयार्थास्तेभ्यः प्रकतेभ्योऽन्यमर्थ हितोया न प्रतिपादयतीत्यर्थत: पर्यवसित इति तस्य वार्तिकस्य विवरणम् अतः कथमननुशिष्टे आधेयत्वमात्रे द्वितीया साधुरिति चेन्न । विभक्तिः प्रकृतेष्वेवेति नियमशरोरस्यासम्भवटुक्तिकत्वात् तत्र हि विभक्तित्त्वावच्छेदेन प्रकृतभिन्नाप्रतिपादकत्वं च प्रतीयते । ननु विभक्तित्वसामानाधिकरण्येन उद्देश्यतावच्छेदकावच्छेदेनोभयभागान्वययोग्यत्व एवैवकारस्य साधुत्वादन्यथा विभक्तिः कर्मण्येव शब्दो वाचक एवेति प्रयोगप्रसङ्गात् । न च विभक्तित्वावच्छेदेन प्रकतप्रतिपादकत्वमस्ति विशेषणवाचकसमभिव्याहृतानामव्ययनिपातसमभिव्याहृतानां च सुपां निरर्थकत्वदर्शनात् प्रातिपदिकार्थः सत्ता सुपामर्थ इत्यस्य प्रागेव निराकृतत्वात् । ननु भवतु तर्हि विभक्तिः प्रकृतेष्विति परिसंख्या विभक्ति: प्रकृतेतरन्न प्रतिपादयतीत्येवंरूपा तस्य एव च्छन्दसि प्रतिप्रसवः सुपां सुबिति तेन स्वर्गकामो यजेतेत्यत्न भटमते प्रथमा यागभाबनाकर्मत्वं लक्षणया स्वर्गस्य प्रतिपादयन्ती नाननुशिष्टविषया एवं सम्पन्ना ब्रीय
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy