SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ११४ द्वितीयाविभक्तिविचारः । यमूहनौयमिति । एवं सति पच्यते तण्डल इत्यादी कर्माख्यातेऽपि प्रथमान्तार्थमुख्य विशेष्यक एव शाब्दबोधः फूत्कारादिव्योपारजन्यविक्लित्यधिकरणतावानेकतण्डल इत्याद्याकारकः सम्भवति । ननु व्यापारस्य विल्लित्यादिफलविशेषणतया भानोपगमे फलत्वापत्तिः धात्वर्थविशेषणतया भासमानस्य धात्वर्थस्य फलत्वाभ्युपगमात् न च नेदं फलस्य लक्षणं किं तु धात्वर्थस्वरूपक्रियाजन्यत्वे सति धात्वर्थत्वं तथा सति व्यापारस्य विक्लित्यजन्यतया न फलत्वं किं तु विल्लि तेरेव तथात्वमिति वाच्यम् । क्रियाजन्यत्वस्य फल लक्षणे विशेषयितुमशक्यत्वात् जानातीत्योदौ विषयतादिफले जानाजन्येऽव्यास्यापत्तेः न च विषयता न धात्वर्थफलमिति तवाव्याप्तिन दोषाय जानाते नमानार्थकत्वात् अत एव घटं जानातीच्छति कुरुते चैत्रो मैत्रेण ज्ञायते इष्यते क्रियते घट इत्यादौ सविषयकार्थकधातुयोगे कर्मप्रत्ययेन यथायथं विषयित्वं विषयत्वं वा बोध्यते भाक्तस्तु जानात्यादेः सकर्मकत्वव्यवहार इत्याख्यावादे दीधितिकृशिरुतमिति बाच्यम् । फलव्यापारोभयं धात्वर्थमभ्युपगच्छतां नये हितीयार्थस्य फलान्वयनियमात्मविषयकार्थकधातुयोगे द्वितीयाऽनुपपत्तेः द्वितीयार्थस्य व्यापारान्वयोपगमे प्राचीनमतप्रवेशेन फलस्य हितीयार्थतापत्त्याधात्वर्यताविरहप्रसङ्गात् । न च कर्माख्याते व्यापारस्य फलत्वमिष्टमिति वाच्यम् । व्यापारस्य फलत्वे तहतः कर्मत्वापत्त्या तहाचकपदाद् द्वितीयापत्तेः । तथा च चैवं पच्यते तण्डुल इत्यादिप्रयोगप्रसङ्ग इति चेत् ।
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy