________________
विभक्त्यर्थनिर्णये।
११५ उच्यते । कर्माख्याते व्यापारस्य फलविशेषणतया भानेऽपि न फलत्वं भावाख्याते धात्वर्थविशेषणतया भासमानस्य धात्वर्थस्य सर्वाख्याते फलत्वात् दर्शितलक्षणस्य कर्माख्यातेऽपि व्यापारे विरहात् ईदृशफलवतः कर्मवात्तहाचकपदादेव द्वितीया भवतीति न दर्शितप्रयोगप्रसङ्गः । एवं सति फलस्य धातुना प्राधान्येन विवक्षायां फलवतः कर्मणः कर्ट त्वेऽपि व्यापारवतो न कर्मत्वं व्यापारस्य निरुक्तफलत्वायोगात् अतो व्यापारवच्च वाद्यर्थकाच्चैत्रा. दिपदान्न हितोया तण्डुलः पच्यते स्वयमेवेत्यादी कमकाख्यातेन वा तण्डुलस्य फलवत्तयो कर्मत्वेऽपि तगडलपदा हितीयार्थभेदस्यान्वयायोग्यत्वात् कर्माख्यात दूव कर्मकाख्यातेऽधिकरणत्वस्याभिधानादनभिहित इति निषेधाच्च । ननु कर्मगतफलस्येव करणादिकारकगतव्यापाराणामपि धातुना प्राधान्येनाभिधानसम्भवा. करणादीनामपि कर्ट त्वं स्यादिति चेदिष्टमेव करणादीनां कट त्वं साध्वसिछिनत्ति महिषमित्यादाववयवारम्भकसंयोगप्रतिइन्दौ विभागः फलं तदनुकूलव्यापारश्च छिनत्तेरर्थः स च व्यापारः खड्गादीनामभिधातादिखरूपः पुरुषादीनां खगााद्यमनादिस्वरूपः तत्र व्यापारफलयोर्जन्यजनकभावसंसर्गेणान्वयः फले तथाभूते विभागे द्वितीयाऽर्थः सामानाधिकरण्यं सामानाधिकरण्यसंबन्धावच्छिन्नमाधेयत्वं वा महिषादिविशेषितमन्वेति न त्वत्र सामानाधिकरण्योनवच्छिन्नमाधेयत्वं हितोयाऽर्थः तथा सति हि टणं छिनत्तीति प्रयोगो न स्यात् स्थाच दलइयं छिनत्तौति प्रयोगः खड्गादिगताभिधाता.