SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ विभक्तत्वनिर्णये । श्री ग्रामं गच्छति न तु मनुष्यमित्यादौ स्वसमवेतसंयोगजनकत्वख प्रवृत्तिभेदप्रतियोगितावच्छेदकत्वोभय संबन्धावच्छिन्न प्रतियोगिताको मनुष्यसामान्याभावो गमने मजा बोध्यते । संयोगेन घटो नास्तीत्यव तृतीयान्तसंयोगपदमिव द्वितीया प्रतियोगितावच्छेदकसंसर्गानुवादकतयोपयुज्यते अतो न काऽप्यनुपपत्तिः । न च दर्शितसंबन्धोभयस्य नृत्यनियामकत्वात्कथं प्रतियोगितावच्छेदकत्वमिति वाच्यम् । यतः स एव हत्यनियामक: खावच्छिन्न प्रतियोगिताकतयाऽभावस्य जगद्दत्तित्वप्रयोजको यः संबन्धः प्रतियोगिवैशिष्ट्यबुद्धिं न जनयति यथा गग'नादिसंयोगो गगनादिवैशिष्ट्यबुद्धिं न जनयति तदवच्छिन्नप्रतियोगिता कोऽभावो जगह, त्तिः प्रकृते दर्शितसंबन्धेन यस्य गमने मनुष्यात्मक प्रतियोगिवैशिष्ट्यबुद्धिजनकत्वान्न तदवच्छिन्नप्रतियोगिताको जगह तिरिति - छिन्नप्रतियोगिता का भावस्य केवलान्वयित्त्व प्रयोज कत्वरूपस्य त्वनियामक संबन्धप्रतियोगितानवच्छेदकत्ववौजस्य दर्शितोभयसंबन्धे विरहान्नानुपपत्तिरिति । न चैवमधिकरणं द्वितीयार्थोऽस्तु तस्यैव दर्शितोभयसंबन्वावच्छिन्नप्रतियोगिताकोऽभावः प्रकृते प्रतीयेतेति वायम । अधिकरणस्य द्वितीयार्थत्वे शक्यतावच्छेदकगौरवर, दर्शितत्वात् । न चैवं दर्शितस्थले संसर्गानुवादकतयः पाधुवे द्वितीया सर्वच साधुत्वार्थमेवास्तु किमाधेयत्वादौ तस्याः शक्तिकल्पनेन ग्रामं गच्छतौलव दर्शितोभयसंबन्धेन गम्यर्थे व्यापारे प्रातिपदिकार्थस्य ग्रामस्थान्वयः तादृशसंसर्गेय प्रातिपदिकार्थप्रकारक शाब्द १२
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy