________________
द्वितीयाविभक्तिविचारः ।
बुद्दी द्दितीयान्तप्रातिपदिकजन्या पदार्थोपस्थितिः ग म्यादिधातुजन्या व्यापारोपःस्थितिश्च कारणं तेन ग्रामोग्रामात् ग्रामेण वा गच्छतीत्यादौ न तथा शाब्दबुद्धि: ग्रामोपस्थितेर्द्दितौयान्तपदाजन्यत्वाद् न वा घटपदेन लक्षणया स्यन्दोपस्थितावपि ग्रामं घट इत्यादौ तथाशाब्दबोधः स्यन्दोपस्थितेर्धातुजन्यत्वाभावात् । एवं सर्वचैव खटत्तिफलसंबन्धित्वस्ववृत्तिभेदप्रतियोगितावच्छेदकत्वोभयसंबन्धेन प्रातिपदिकार्थप्रकार कशाब्दबुद्धौ द्वितीयान्तपदजन्योपस्थिति सामान्यतः कारणं धातुजन्योपस्थितिस्तु विशेषतः कारणं तेन स्पन्दिजन्योपस्थिते रहेतुत्वाद ग्रामं स्पन्दते इत्यादौ न तथा शाब्दबोधः । न च दर्शितोभयसंबन्धस्य कर्मत्वात्मकत्वात्कर्मता संसर्गेण प्रातिपदिकार्थप्रकारकथादे द्वितीयान्तपदजन्योपस्थिते व्यभिचारः "देवाकर्णय संग्रामे चापेनासादिताः शरा" इत्यादी. पूर्वमेव दर्शित इति कथमीदृशः कार्यकारणभाव इति वाच्यम् । आसादनकर्मशराणां वाक्यार्थत्वा व्यातिपदिकार्थत्वविरहात् व्यभिचाराप्रसक्तेः । कदन्ततद्वितान्तसमासानां वाक्यानां प्रातिपदिकसंज्ञा विधानाद्दाक्यार्थस्यापि तेषामर्थस्य प्रातिपदिकार्थत्वमचतमेवेति कर्मतासंसर्गेण कृदन्तादिवाक्यार्थप्रकारिका शाब्दधौ: प्रातिपदिकार्थप्रकारिकैबेति पाचकमानय दाक्षिं भोजय स्वेष्टदेवं पूजयेत्यादौ न द्वितीयान्तपदजन्योपस्थितेरन्वयव्यभिचारः । एवं खगो भुवं गच्छति न तु स्वमित्यत्रापि दर्शितोभयसंबन्धात्मक कर्मत्वसंसर्गेण भूप्रकारिकायास्तथाविधसंसर्गावच्छिन्नप्रतियोगिता कस्वाभावप्रकारिका