SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ द्वितीयाविभक्तिविचारः । करण: संयोगः प्रावर्जितस्य गमेः फलमिति तेन प्रयागाल्काशीमागच्छति शक्रप्रस्खं गच्छतीति प्रयोगः प्रयागात् शक्रप्रस्थमागचछति काशौं गच्छतौति न प्रयोगः पाटलिपुत्रस्था नामिति । ननु भेदस्य द्वितीयार्थताभ्युपगमेन विहगो भूमि गच्छति न तु स्वमित्यादौ निषधप्रतीत्युपपादनेऽपि चैत्रो ग्रामं गच्छति न तु मनुष्यमित्यादौ निषेधप्रतीत्यनुपपत्तिस्तदवस्यैव गम्यर्थसंयोगे चैत्रात्मकमनुष्य ममवेतत्वम्य व्यापार च मनुष्यान्तरत्तिभेदस्य प्रतियोगितावच्छेदकतायास्मत्वात् । दितौथार्थयोराधेयत्वभेदयोनिषेधस्य तत्र बोधयितुमशक्यत्वात् चैत्रो मनुष्यं गच्छतौतिप्रयोगापत्तिश्च । न च तत्तन्मनुध्यनिछान्योन्याभावप्रतियोगितावच्छेदकं तत्तन्मनुष्यष्टत्तिसंयोगजनकत्वविशिष्टं यावत् तावदभाबकूट एव नञा प्रतिपाद्यते । तथा च चैत्रात्मकमनुष्यत्तिसंयोगजनकत्वविशिष्टं यत् चैत्रात्मकमनुष्यवत्तिभेदप्रतियोगितावच्छेकत्वं चैत्रकर्मकान्यदीयगमनेऽस्ति तदभावस्य ना बोधनात् मनुष्यान्तरकर्मकचैवकट कगमने यत्किंचिन्मनुष्यत्तिसंयोगजनकत्वविशिष्टस्य यत्किंचिन्मनुष्यनिष्ठभेदप्रतियोगितावच्छेदकत्वस्य विरहेऽपि चैत्रो मनुष्यं न गच्छतो उन प्रयोगः तादृशतावदभावकूटस्य तादृशचैत्रगमनेऽसत् दिति बाच्यम् । भेदस्यैव दितीयार्थतया ताबदवच्छेदकत्वस्यानुपस्थित्या तदभावग्रहासम्भवात् तावदभाव कूटस्य युगसहस्रेणापि ग्रहीतुमशक्यत्वाच्च । तस्माद् द्वितीयाया भेदार्थकत्वेऽपि निषेधप्रयोगोपपत्तिन सम्भवतीति चेन्न । यत
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy