________________
विमरथथानणय । प्रकृत्यर्थस्य द्वितीयार्थाधेयत्व न गम्यादिफलसंयोगाद्यन्वययोग्यान्वयो वक्तव्यः । स्वपदं परिचायकमवयवः समवायो तन गगनं क्षेवतं कालं दिशं वा गच्छतीति न प्रयोगः । न च मन: परमाणुं गच्छतौतिप्रयोगोऽनुपपन्न इति वाच्यम् । इष्टत्वात् । परमागुमनसोमिथः संयोगसत्वेऽपि गगनघटयोरिव गम्यगन्टभावानभ्युपगमात्। गगनं गच्छतीत्यादी गगनपदं दर्शितसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावपरं तादृशाकाशाभावस्य विशेषण तया द्वितीयार्थाधेयत्वेऽन्वय इति यदि च वृक्षादौ संयोगो व्याप्यत्तिर्न तु तदधिकरणता तदा द्वितीयार्थाधे यत्वस्य स्वनिरूपकप्रकृत्यार्थात्मकाधिकरणावयव निष्ठावच्छेदकतानिरूपितावच्छेद्यतासमानाधिकरणेन समवायाच्छिन्नाधेयत्वीयस्वरूपसंसर्गेण गमिफले संयोगे त्यजिफले विभागे चान्वयस्तेन गगनादिकं गच्छति त्यजति वेति न प्रयोगः । दर्शितसंसर्गेण द्वितीयार्थाधेयत्वस्य संयोगे विभागे च बाधात् । गगनादिकं गच्छति त्यजति वा इत्यादौ दितीयार्थाधेयत्वस्य दर्शितसंसर्गावच्छिन्नप्रतियोगिताको भावः संयोगे विभागे चान्वेतीति तत्प्रयोगोपपत्तिः । प्राचौं गच्छतोत्यादौ दिगुपाधिमत उदयगिरिसंनिहितदेशस्य प्राचौपदेन प्रतिपादनान्नानुपपत्तिः । एवं शकुनि: खं गच्छतीत्यादौ खशन्देन वायुमण्डलस्य प्रतिपादनान्नानुपपत्तिः । एवं प्रयोक्त पुरुषाधिष्ठितदेशावधिकगमनकर्ट देशममवात परत्वनिरूपितापरत्वस्य समानाधिकरणः संयोग आपूर्वस्य गमेः फलं तादृशापरत्वस्थासमानाधि