________________
***
श्री वर्द्धमान जिन देशना ॥५१॥
श्रीहरिबलकथा॥
*
*
हि मुखभञ्जनं विना स्थाने नायाति, किश्चास्य कुमार्गप्रेरको हि स दुष्टो मंत्र्येवास्ति, यदधुना स दुर्जनो मूलादेवोन्मूलनीयः,' इति निजभार्यया सममामंत्र्य देवं च सार्थ गृहीत्वा प्रभाते राजसभायामाययौ, हरिबलं दृष्ट्वातीव विस्मितो राजाचिन्तयदहो | साक्षात्प्रत्यक्षं रक्षीभूतोऽसौ हरिबला पुनरत्र कथनागाः?' इति विवलोभूतो राजा हरिबलमपृच्छत् 'भो साहसिकशिरोनगे ! त्वमत्र कथमागतः ? असौ च तव पार्श्व समुपविष्टः सुरः कोऽस्ति ?' हरिबलेनोक्तं 'स्वामिन् शृणु ? अहं युष्मत्प्रत्यक्षमेव भस्मीभूतः, ततो यमकिङ्करैर्मम रक्षा गृहीत्वा यमपार्श्व मुक्ता, यमेन चाहं स्वशक्त्या संजीवितः. तत्प्राभावाच मम शरीरेऽतीवकांतिः प्रादुर्भूता, तत्र गतेन च मया या शोभा ऋद्धिश्च विलोकिता तस्या वर्णनं सहस्रजिह्वाभिरपि कथयितुं समर्थो न भवामि, तत्र संयमिनीनाम नगरी वर्तते, धर्मराजा च तस्यां राज्यं करोति, पुण्यवंतो लोकास्तत्र वसन्ति, शक्रादयः सर्वे देवास्तस्य राज्ञः सेवां कुर्वन्ति, किंबहुना ! सकलमपि त्रिभुवन तस्य सेवायां वर्तते. अयं मत्पास्थितश्च पियवदननामा तस्य यमस्य प्रतिहारोऽस्ति, तुष्टः सन्नसौ कल्वृक्षसमोऽस्ति, रुष्टश्च लोकानां कालतुल्योऽस्ति. अथ मया प्रियेवचनैर्यदा यमराजो भात्कृते निमंत्रितस्तदा स तुष्टः समित्युवाच 'भो पुरुष ! नूनं तत्राहमागमिष्यामि परमेकवारं तवावनीनाथो मन्व्यादियुतो यदि समागच्छेत्तदा वरं, यथा तन्मंत्रिप्रभृतीनां भक्ति कृत्वातीवरूपवती कन्यां दिव्याभरणानि च दत्वा पश्चादहमागमिष्यामि. अतस्त्वं शिघ्रं याहि, राजानं सर्वमंत्रिवर्ग च शिवं प्रेषय ?' इति कथयित्वा तेनाहं विसृष्टः, भातामाकारणार्थ मम च मार्गदर्शनार्थमसौ प्रताहारस्तेन मया सार्द्ध प्रेषितोऽस्ति." ततो यदरिबलेनोक्तं तत्सर्व देवेनापि तयाक्तं. ता त्या राजायाः सर्वेऽपि लोकास्तत्सर्व सत्यमेव मेनिरे.
藤柴聯聯號聯華盛馨馨馨馨馨馨馨馨榮路器鉴踪踪踪踪器錄器錄號
*****
*
*