________________
श्री बर्द्धमान जिन देशना ॥५०॥
श्रीहरिबलकथा॥
華樂齡继聯號號號號號驚艷號號號藥藥鱗聚器端濫藥馨馨馨馨號聯強
स्माकं कौशलं पश्यत ?' हरिबलेन तथाकृते ताभ्यां नृपस्य सन्मानपूर्वकं स्वागतं कृतं, तद्दत्तासनोपविष्टो राजा ताभ्यामुक्तो 'हे स्वामिन्नद्यात्र भवतामागमनं कुतो जातं ? राजा अहिलबद्धास्यं कुर्वन्नुवाच 'किं भवतीभ्यां न ज्ञातं ? भवदानयनार्थमेवाहं समागतोऽस्मि.' ताभ्यामुक्तं 'स्वामिन् भवनामेतन्न युज्यते, यतो राजा सेवकजनस्य जनक उच्यते. उक्तं च१परइत्थो देवित्थी। सरिसावि हवेउ सूपरिहरणिजा॥ पुरिसाण सेवगित्थी। सुआवि दूरं विसेसेणं ॥१॥
ततो हे महाराजा ! अस्मद्गृहाचं दूरं याहि ! प्रागांतेऽपि आवां स्वशीलं नैव खण्डयिष्यावः, उक्तं चवरं श्रृगोत्तुंगाद्गुरुशिखरिणः क्वापि विषमे। पतित्वायं कायः कठिनदृषदंतर्विदलितः ॥ वरं न्यस्तो हस्तः फणिपतिमुखे तीक्ष्णदशने । वरं वह्नौ पातस्तदपि न कृतः शीलविलयः॥१॥ कल्याणमिच्छता पुंसा सर्वदा न्यायमार्ग एवं वर्तनीयं, अन्यायश्च दूरे परिहरणीयः, नीत्या च सर्वसंपदो भवन्ति,
इत्यादियुक्तिभिः प्रतिबोधितोऽपि राजा न प्रतिबुद्धः, कामग्रहगृहीतः सन् भोगप्रार्थनामेव चकार. प्रतिषिद्धोऽपि यदा न स्वस्थीभूतस्तदा कुसुमश्रिया स विद्यया दृढबंधनैर्बद्धो लगुडप्रहारैश्च कुट्टितस्तेन चिरपोषिता अपि दंतास्तस्य मुखात्पतिताः, एवं पीडितो राजा दुःखेनाकंदं चकार. तदा कुसुमश्रियोक्तं 'अरे दुष्ट ! त्वया पापफलं दृष्टं न वा ? त्वयेहकार्य पुनर्न कर्तव्यमिति' कथयित्वा करुणया बंधनान्मुक्तः, ततोऽपौ बहुतरं शोचयन् लज्जया चाधोमुख विधाय स्वावासे प्राप्तः, ___ अथ हरिवलो निजस्वीकौशलं दृष्ट्वातीवविस्मितस्ताभ्यां कथयामास, 'भो प्रिये ! भवतोभ्यामेतद्भव्यं कृतं. मूर्यो
१ परस्त्री देवस्त्री सदृशापि भवति सुपरिहरणीयाः पुरुषाणां सेवकस्त्री सुताऽपि दूरं विशेषेण ।
聯發器端器器器端端端端端柴柴柴藥藥聯鑑藤藤藤藤藤柴柴柴柴柴蒂
॥५०॥