________________
श्री वर्द्धमान जिन देशना ॥४५॥
द्गम्यते तदा वरं.' तयोक्तं ' हे स्वामिन्! एवं खेचरेंद्रा यत्र तत्र न गच्छेति, अतस्ते राज्ञः प्रत्ययार्थं किंचिदभिज्ञानमहमानयिष्यामीत्युक्त्वा सा बाला विभीषणभुवने गत्वोपायेन तस्य चंद्रहासखड्ग गृहीत्वानीय हरिबलहस्ते समर्पयामास ततो भार्यासहितः प्रमुदितोऽसौ सारं धनं गृहीत्वा समुद्रतटे समायातः, तदा मत्स्यरूपेण देवेन तौ स्वपृष्टे समारोप्य विशालानगरीसमीपे समानीतौ तत्र हरिखलो भार्यायुतो दिवसे वनखंडे स्थितः, रात्रौ च कुसुमश्रियमापृच्छय स्वगृहे समागत्य प्रच्छन्नं निजगृहस्वरूपं पश्यति.
अथ कामाग्निना विह्वलीभूतो मदनवेगराजा एकाक्येव वसंत श्रीपार्श्वे दुष्टबुद्धया समागतः महासती वसंत श्रीरपि तस्य दुष्टाभिप्रायं विज्ञाय बाह्यतस्तस्यासनादिभक्तिं चकार. हृष्टो राजा तां प्रत्यवदत्, हे शशिवदने ! त्वं रूपेण रतितुल्यासि, अहं च मदनसमानोऽस्मि, अत आवयोः संयोगमिलने ब्रह्मणः प्रयासः सफलो भविष्यति' तत् श्रुत्वा वसंत श्री विषण्णा सत्यचिन्तयत् ' अरे दैव ! अयं राजा, अहं चात्रैकाकिनी शरणरहिता किं करोमि ? कथं च मम शीलं रक्षामि ? शीलं विना हि स्त्रीजन्म वृथैव भवेत् उक्तं च
१अणताओ पावरासीओ। जया उदयमागया || तया इत्थीत्तणं पत्तं । सम्मं जाणाहि गोयमा ॥ १ ॥ यद्यपि रुष्ट राजा चेन्मम प्राणान् हरेद्रथवा तुष्टः संपदं दद्यात्तथापि मे शीलं नाहं खंडयिष्यामी' ति ध्यात्वा हर्षित - वदना वसंतश्रीनृपमुवाच ' हे स्वामिन्नद्य भवद्भिर्महाप्रसादः कृतो यन्मे गृहे यूयं समागताः परं भवत्प्रार्थना योग्या नास्ति, १ अनन्ताः पापराशयः यदा उदयमागताः तदा स्त्रीत्वं प्राप्तं सम्यग् जानीहि गौतम ! ॥
श्रीहरि - बलकथा ॥
॥४५॥