________________
श्री वर्द्धमान जिन देशना ॥४४॥
举张继继聯柴號器端柴柴柴器继器端器蒸茶器端器器茶器聯辦繼器
पुत्र्यस्मि. एकदा कोऽपि सामुद्रिकशास्त्रवेत्ता विप्रो मम जनकपार्श्वे समागतः, मज्जनकेन च तं प्रत्युक्तं 'भो विप्र ! मम पुत्र्या श्रीहरिहस्तरेखा त्वं विलोकय ! तेनापि मम हस्तं विलोक्य कथितं भो पुष्पाजीविन् ! तव पुत्र्या हस्तरेखासु अतीवशुभलक्षणानि | बलकथा॥ पतितानि संति, अतस्तव पुत्रीं यः परिणेष्यति स नूनं राजा भविष्यति. यदुक्तं
भंगारासनवाजिकुंजररथश्रीवत्मयः शुभ-ौलाचामरकुंडलांकुशयवैः शैलध्वजैस्तोमरैः॥ मत्स्यस्वस्तिकवेदिकाव्यजनकशंखातपत्रांवुजैः। पादे पाणितले नरा नृपतयो राज्यो भवंति स्त्रियः॥१॥ यद्भाले स्यात् त्रिशूलं सा, स्वामिन्यखिलयोषितां। हसंत्याः स्वस्तिको यस्या, भाले दृश्येत सापि च ॥२॥
इति श्रुत्वा मम पिता राज्यलोभाकुलो मूढो मत्पाणिग्रहणार्थमभिलाषं चकार, धिर धिग् लोभाकुलं नरं. इति तद्भाव विज्ञाय मम मातृभ्रातृप्रभृतिस्वजनवर्गेण निषिद्धोऽपि मे जनकस्तद्विचारान्न न्यवर्तत. तदा स सर्बहिनिष्कासितस्त्वरितं | * मां गृहीत्वा पापात्मात्र बने समागतः, विद्यया चावासं कृत्वा स्थितः, यदा कम्मैचित्प्रयोजनाय स बहिर्गच्छति तदा | विद्यया मां मृतावस्थां करोति. पुनरागतश्च तुंवरसेन पुनर्जीवितां करोति. एवं भो सज्जन ! मरणं वांछन्त्यहमत्र दुःखाकुला तिष्ठामि. अतो हे सत्पुरुष ! कृपां विधाय त्वं मां परिणीयास्माद् दुःखसागरान्निस्तारय ?' तत् श्रुत्वा हरिबलश्चिंतयति 'अहो ! जीवदयारूपकल्पलतायाः फलमीगेव, यद्विद्याधरमुतापि हीनकुलं मां परिणयितुमिच्छति,' इति ध्यात्वासौ तां परिणीतवान्. ततस्तेन हरिवलं प्रत्युक्तं 'हे स्वामिन्नधुना चेन्मम जनकोऽत्र समेष्यति तदा स कमप्यनर्थ करिष्यति, अत इतः स्थानादावामन्यत्र गच्छावः.' तत् श्रुत्वा हरिबल उवाच 'हे प्रिये महता कष्टेन यत्कार्यार्थमहमवागतोऽस्मि तत्कार्यं कृत्वा पश्चा-1
४४॥
自继蒂蒂蒂器端盖器器號號號號號號號馨馨馨馨藥器器端藥藥器务器