________________
श्री वद्धमान जिन देशना ॥२१॥
यदिने राजा पाणौ करवालं घृत्वा दीपच्छायायां स्थितः इतस्तत्रागताया आरामशोभायास्तच्चेष्टितं दृष्ट्वा स मनसि चिन्तयामास निश्चितमेषा मम भार्यारामशोभैव वर्त्तते.
अथ प्रभाते मनसि कुपितो राजा कृत्रिमारामशोभांमप्रत्युवाच, 'हे भद्रे ! त्वं तद्वनं समानय. अन्यथा मम तत्र प्रयोजनं नास्ति तत् श्रुत्वा कृत्रिमारामशोभा चिन्तयति, 'अरे निष्पुण्याहमधुना किमुत्तरं ददामि ? कि च करोमि ?' अथ रजन्यामारामशोभा पुनस्तत्रागता, निजकार्यं कृत्वा च यावत्पश्चाद्वलिता तावद्राजा तां करे गृहीत्वाऽकथयत्, 'हे देवि ! त्वं मुधा मां कि विप्रतारयसि ?' तदा राज्ञ्युवाच 'हे प्रभो नाहं विप्रतारयामि, किन्त्वत्र कारणमस्ति' राज्ञोक्तं 'हे प्रिये ! तत्कारणं मे कथय ?' राज्ञ्योक्तं 'हे नाथ ! कल्ये कथयिष्यामि, सांप्रतं मां विसर्जय ?' राज्ञोक्तं 'हे भद्रे ! अथ हस्तागतं चिन्तामणिरत्नं को विमुञ्चति ? ततस्त्वं कारणं कथय ?' तयोक्तं 'स्वामिन्! कारणे कथिते भवतां पश्चात्तापो भविष्यति' परं राज्ञा यदा कदाग्रहो न मुक्तस्तदा तथा मूलादारभ्य सर्वोऽपि निजवृत्तान्तस्तस्मै निवेदितः इतः सूर्योदयो जातः, ततश्च तद्वेणीदण्डान्मृतक भुजगः पतितः, तद् दृष्टवारामशोभा विलापान् कर्त्ती लग्ना, 'हा पितर्निर्भाग्याहं कथं त्वया त्यक्ता ?' इति विलापान् कुर्वन्ती सा मूर्छामासाद्य भूमौ पतिता, पानीयसेचनशीतलवातव्यजनानंतरं जातचेतनां तां नृपो वदति 'हे देवि त्वं किमर्थं दुःखं करोषि ? भवितव्यं भवत्येवेत्यादिमिष्टवचनैनृपेण सा संतोषिता, अथ क्रोधान्धो राजा तां कृत्रिमारामशोभां बध्ध्वा कशाप्रहारैस्ताडयामास तदारामशोभया नृपपादयोर्लगित्वा सा मोचिता, राज्ञा च सा गृहान्निष्कासिता. अथ राज्ञा निजसुभटानामादेशो दत्तो 'यद्विप्रपार्श्वात्तान् द्वादश ग्रामान् गृहीत्वा सर्वं धनमपि लावा तं
*********************
आराम
शोभा
कथा
॥२१॥