________________
श्रीं वर्द्धमान जिन देशना
||२०||
अथ राजा सुतं देवकुमारसदृशं दृष्ट्वा हृष्टो राज्ञीं च तथारूपां दृष्ट्वा विषादं प्राप्तः सन् राज्ञीं पृच्छति, 'हे देवि ! तव शरीरे किं जातं?' 'सावदन् स्वामिन् ? मे शरीरे कोऽपि रोग उत्पन्नोऽस्ति, तेन चेदृशी मे शरीरावस्था जाता दृश्यते, तदा राजा विषण्णचित्तः सन् पुनः पृच्छति 'हे देवि ! तन्नंदनवनं कथं न दृश्यते ?' तदा सा कृत्रिमारामशोभाऽवदत् 'स्वामिन् पानीयं पिबन् स आरामो मया पश्चान्मुक्तोऽस्ति, अतः स्वयमेव स आगमिष्यति' तदा राजा चिन्तयति 'किमेषारामशोभैव वा काचिदन्यास्ति ?' एवं तस्य विषये नरेन्द्रस्य मनः शङ्कितं जातं, पुनरपि राज्ञा तस्यै कथितं 'प्रिये, तद्वनखंडं समानय ?" तयोक्तं 'प्रस्तावे आनयिष्यामि तदा राजा चिन्तयति 'धुत्रमेषारामशोभा नास्ति, अन्या काचिद्वर्त्तते.
अथ पातालगृहे स्थितारामशोभा यक्षप्रति भणति 'हे तात ! पुत्रविरहोऽतीव मां बाधते, ततस्तथा कुरु यथाहं पुत्रमुखं पश्यामि' यक्ष उवाच 'हे पुत्रि ! मम शक्त्या त्वं पुत्रं पश्यसि, परं त्वया सूर्योदयादर्वागत्र पश्चादागन्तव्यं, यदि नायास्यसि तदाहं तव दर्शनं न दास्यामि, यदा च तव वेणीदंडान्मृतदर्वीकरः पतिष्यति तदा मम दर्शनं पुनर्न भविष्यतीति' त्वया ज्ञेयं. अथारामशोभयैतत्प्रतिपन्नं अथ सा देवप्रभावद्यत्र राजभुवने निजपुत्रः सुप्तोऽस्ति तत्राजगाम मृदुकराभ्यां तं गृहीत्वांके च संस्थाप्य क्रीडां कारयित्वा पुनः शय्यायां संस्थाप्य तत्र चतुर्दिक्षु निजारामफलपुष्पाणि मुक्त्वा नृपभार्या पातालगृहे समागता. प्रभाते चैतत्स्वरूपं दृष्ट्वा धात्री राज्ञे निवेदयामास राज्ञा पृष्टा कृत्रिमारामशोभा वदति, 'हे स्वामिन् ? मया वनखंडात्पुष्पफलान्यानीतानि संति,' राज्ञोक्तं 'यद्येवं तर्हि सांप्रतं तत्पुष्पफलान्यानय ?' तयोक्तं 'स्वामिन् ! रजन्यामानयिष्यामीति' श्रुत्वा राजा चिन्तयति 'कल्ये नूनमेतन्निश्चयं करिष्यामि, द्वितीयदिनेऽपि तथैव राजा शिशुपार्श्वे पुष्पफलानि पश्यति अथ तृती
*****
*******
आराम
शोभा कथा
॥२०॥