________________
श्रीवर्द्धमान जिनदेशना ॥२५७॥
*******
मिथ्यादुष्कृतं देहि । यत :
१ पागडियसव्व सल्लो । गुरुपयमूलंमि लहइ साहुपयं ॥ अविसुद्धस्स न वढ्ढइ । गुणसेडी तति अठ्ठाइ ॥ १ ॥ इति श्री गौतमेनोक्तं वचनं तथेति कृत्वा स महाशतक आलोचयति क्षामयति, तन्निमित्तं प्रायश्चित्तं च कुरुते ततः श्रीगौतमोऽपि वीरप्रभुपार्श्वे समागतः प्रभुरन्यत्र विजहार अथ स महाशतकश्राद्धोऽपि विंशतिवर्षाणि यावत् श्रावकधर्मं पालयित्वैकमासिकमनशनं विधाय शुभध्यानेन पंचपरमेष्ठिनमस्कारं स्मरन् प्रथम देवलोकेऽरुणावतंसक विमाने चतुः पल्पोपमायुर्देवो जातः तत्र स दिव्यनाटकादिविविध सौख्यान्यनुभवति, उक्तं च
देवा देवलोए । जं सुक्खं तं नरो सुभणिउवि ॥ न भणइ वाससएणवि । जस्सवि जीहासयं हुजा ॥ १ ॥
ततः श्रीगौतमेन वीरजिनेंद्रः पृष्टो हे भगवन् ततश्च्युत्वा स क यास्यति ? भगवानुवाच ततश्च्युत्वा स महाविदेहे मनुष्यत्वं प्राप्य केवलज्ञानं लब्ध्वा मोक्षं यास्यति ॥ इति श्रीमहाशतकस्य चरित्रं श्रुत्वा जंबूस्वामी परमसंवेग प्राप्तवान्. ॥ इति श्रीवर्द्धमानदेशनायां वाचनाचार्य श्रीरत्नलाभगणिशिष्येण राजकीर्तिगणिना गद्यबंधेन प्रणीतायां महाशतकश्रावकप्रतिबोधो नामाष्टम उल्लासः समाप्तः ॥ श्रीरस्तु ॥
१ प्राकटितसर्वशल्यो गुरुपदमूले लभते साधुपदं अविशुद्धस्य न वर्द्धते गुणश्रेणि तृप्ति अर्थाय .
२ देवानां देवलोके यत् सुखं तन्नरो सुभणितोऽपि । न भणति वर्षशतेनाऽपि यस्यापि जीह्राशतं भवति.
महाशतक
चरित्रम् ||
॥२५७॥