________________
श्रीवर्द्धमान जिनदेशना ॥२५६॥
多张继參器聯密佛柴柴聯號聯染蒂蒂蒂蒂蒂蹄蹄晚柴浆器蒂蒂器等
नूनं केनापि कुमरेणन मारयिष्यति. इति भीताध्यानपतिता सा सप्तमदिने विसूचिकारोगेण मृत्वा प्रथमनरके गता.
महाशतक इतः श्रीबर्द्धमानजिनोऽपि विहारं कुर्वस्तत्राजगाम. तदा श्रेणिकप्रमुखा जनास्तत्रागत्य प्रभुं नत्वोपविष्टाः. प्रभुणापि चरित्रम्॥ | मधुरवाण्या धर्मापदेशो दत्तः, ततः सर्वा अपि पर्पदो निजनिजस्थानके गताः __अथश्री महावीरो गौतमस्वामिनं प्रति वदति 'हे गौतम ! अत्र नगरे महाशतकाभिघः श्राद्धवर्योऽस्ति, तेनोपासकप्रतिमातपः कुर्वता मां च स्मरता धन्यात्मनानशनं गृहीतमस्ति. तार्यया कामोद्दीपकवचनैः क्षोभितोऽपि स क्षुब्यो , नास्ति. परं तस्यै क्रोधवशेन तेनैवं कथितमस्ति, रे दुष्टे पापिष्टे त्वमद्यतः सप्तमदिने विसूचिकारोगेण मृत्वा प्रथमनरके उत्पत्स्यसे इति. परं हे गौतम ! इदृग्वचनं वक्तुं तस्य युक्तं न. सर्वजीवराशिं क्षामयित्वानशने गृहीते सति सत्यमपि परपीडाकारि वचनं वक्तुं न युज्यते. यतः
प्रियं पथ्यं वचस्तथ्यं । सूनृतव्रतमुच्यते ॥ तत्तथ्यमपि नो तथ्य-मप्रियं चाहितं च यत् ॥१॥ रजेण परोदुहिज्झइ। पाणिवहो होइ जेण वयणेण॥ अप्पा पडइ किलेसे। तं णहु जति गीयत्था ॥२॥
अतो भो गौतम ! तत्र गत्वा त्वं तं श्रमणोपासक महाशतकं कथय ? यथा त्वं तत्पापं समालोचय ? मिथ्यादुष्कृतं च देहि ? तदा श्री गौतमोऽपि तथेत्युक्त्वा राजगृहे पौषधशालायां गतः. गौतममायांतं दृष्ट्वा हृष्टो महाशतकस्तस्मै वंदनादि विधायासनदानादिकमकरोत्. ततः श्रीगौतमो महाशतकं प्रत्याह 'भो श्राद्धोत्तम! वीरजिनो मम मुखेन त्वां प्रति वदति यत्परपीडाकरं वचनमनशनिनो न वदंति, ततो रेवत्यै त्वया सत्यमपि तत्पीडाकरं यद्वचनं भणितं तदालोचय ? तदर्थ च १ येन परो दुह्यते प्राणिवधो भवति येन वचनेन । आत्मा पतति क्लेशे तन्नहि जल्पन्ति गीतार्थाः
॥२५६॥