________________
श्रीवर्द्धमान जिन देशना ॥२५॥
महाशतक चरित्रम् ॥
鄉望鄉游強號路路路帶將藥帶柴柴柴柴聯跑验密聯继聯盟的晚验號,
गोकुलानि च दत्तानि संति. शेषाणां द्वादशानां पितृभिस्ताभ्य एकैककोटिस्वर्णमेकैकं च गोकुलं दत्तमस्ति. इत्यादिभूरिसमृद्धिस्तस्य गृहे वर्त्तते
एवं ताभिर्भार्याभिः सह स विवधसौख्यानि भुक्ते. अर्थकदा सुरासुरसेवितपदकमलोऽष्टमहापतिहारशोभितः श्वेतचामराभ्यां वीज्यमानश्च्छत्रत्रयेण च विराजमानोऽग्रेनीयमानधर्मचक्रः श्रीवीरजिनेंद्रस्तत्र समवसृतः. वनपालमुखात् श्रीवीरागमनं श्रुत्वा हृष्टमानसः श्रीश्रेणिकराजा हस्त्यश्वरथपदातियुतो वाघमानविविधवादित्रो मस्तकध्रियमाणपवित्रछत्रोऽधिकश्रीको वीरजिनेंद्रवंदनाथै समागतः. तत्र प्रभुं स त्रिःप्रदक्षिणीकृत्य वंदित्वा यथास्थानमुपविष्टः. महाशतकोऽपि प्रभुवंदनार्थं समायातः.
तदा स श्रीत्रिभुवनस्वाम्बपि वांछितरणे कल्पतरुतुल्ययामृतकल्पया वाण्या धर्मापदेशं ददौ. भो भो भव्यलोका अस्मिन् संसारे संयोगवियोगापत्संपभोगरोगसधनत्वनिर्धनत्वसुखदुःखयौवनजराव्याप्तं सर्व लोकं ज्ञात्वा शाश्वतसुखप्राप्तये यूयं धर्म कुरुत ? तमपि धर्म शुभभावेन समाचरत ? शुभभावना हि शिवभवनारोहणे निःश्रेणितुल्यास्ति, भावनायुतं च धर्म यः समाराधयति सोऽसंमतवत् शिवसुखं प्राप्नोति. तत् श्रुत्वा श्रेणिकेनोक्तं हे स्वामिन् स कोऽसंमतः, कथं च तेन भावना भाविता? कथं च तेन मुक्तिसुखं प्राप्तं ? इति पृष्टः श्रोवीरप्रभुरवादीत.
अत्र रत्नपुरे नगरेऽरिमईनो राजा राज्यं करोति, ललितांगाभिधश्च सर्वशास्त्रवेत्ता तस्य पुत्रोऽस्ति. अन्यदा वसंतसमये क्रीडाथै स वनमध्ये गतः, तत्र क्रीडार्थमागतां मन्त्रिपत्नी विलोक्य स कामातुरोजनि. मंत्रीपल्यपि तं महारूपवंतं दृष्ट्वा
॥२५॥