________________
श्रोचर्द्धमान जिनदेशनो
॥२४९॥
महाशतक चरित्रम् ॥
各绝杀器密密密密器端帶柴柴柴桑染器樂器器继器樂遊路器樂游游游路
बहिरागत्य कोलाहलमकरोत्. तत् श्रुत्वा तस्य भार्या तत्रागत्य कथयामास हे आर्यपुत्र ! त्वया कथं काला| हलः कृतः ? तदा सद्दालपुत्रेण यथाभूतः सर्वोऽपि वृत्तांतस्तस्या अग्रे कथितः. तत् श्रुत्वा तयोक्तं हे नाथ ! तवायमुप- सर्गः कोऽपि देवेन कृतोऽस्ति, तव सर्वेऽपि पुत्रा निजावासे सुखेन सुप्ताः संति.
अथ विराधितव्रता यूयं गुरुसमीपे गत्वालोचनां कुरुत ? तत् श्रुत्वा तेनापि गुरुसमीपे गत्वालोचना गृहीता. एवं स विंशतिवर्षाणि यावत् श्रीवीरजिनेंद्रोक्तं धर्म समाराध्यालोच्य पतिक्रम्यानशनं विधाय सौधर्मदेवलोकेऽरुणाभविमाने चतु:पल्योपमायुः सुरो महर्द्धिको जातः.
अथ श्रीगौतमः प्रभुं पृच्छति हे भगवन् ! स सद्दालपुत्रस्ततश्च्युत्वा क्य यास्यति ! प्रभुणोक्तं भो गौतम! स ततश्च्युत्वा महाविदेहे सिद्धिं यास्यति । एवं श्रीसदालपुत्रस्य चरित्रं श्रुत्वा जंबूस्वामी परमसंवेगं प्राप्तवान्. ॥
इति श्रीवईमानदेशनायां वाचनाचार्य श्रीरत्नलाभगणिशिष्येण राजकीर्तिगणिना गद्यबंधेन विरचितायां सहालपुत्रप्रतिबोधो नाम सप्तम उल्लासः समाप्तः॥ श्रीरस्तु॥
अथ श्रीसुधर्मस्वामी जंबूस्वाम्यग्रे महाशतकस्य चरित्रं कथयति-अस्मिन् भरतक्षेत्रे राजगृहाभिधं नगरं वर्त्तते. तत्र गुणशिलाख्यं चैत्यमस्ति, तस्मिन्नगरे जिनभक्तो महाराजा श्रीश्रेणिको राज्यं करोति. तत्रैव नगरे महाधनाढयो महाशतकाख्यो गृहपतिर्वसति. तस्य व्याजे व्यवसाये भूमौ चाष्टाष्टकोटिसुवर्णमस्ति. पुनस्तस्य गृहेऽष्टौ गोकुलानि संति. किं च सौभाग्ययुता रूपश्रिया निर्जितसुरांगना रेवतीप्रमुखास्त्रयोदश तस्य भार्याः संति-तत्र रेवत्यै तत्पित्राष्टकोटिसुवर्णमष्ट
|
节能柴柴蒸路带染號聯聯競聯懿器蒂蒂柴晓晓晓樂器帶柴柴聯游翰
|॥२४९॥