________________
श्री वर्द्धमान जिन देशना ॥२४७॥
तथा श्रीवीरोऽपि जन्मजरामरण कल्लोलोच्छलितसंसारसमुद्राद् भव्यसमूहं धर्मपोतेन शिवपुरीं प्रापयति, तस्मात्स निर्यामकः प्रोच्यते. तथैव स महाधर्मकथकोऽपि कथ्यते. सद्दालपुत्रेण पृष्टं भो गोशालक ! कथं स महाधर्मकथकः कथ्यते ? तेनोक्तं महापापरक्तानां सर्वेषां जनानामग्रे निस्तारणाय स धर्मकथां करोति, ततोऽसौ महाधर्मकथकः कथ्यते.
अथ स सदालपुत्रस्तथाविधं त्रिशलासुतस्य श्रीमहावीरस्य गोशालेन कृतं गुणकीर्तनं श्रुत्वा तं प्रति हृष्टमानस उवाच भो गोशालक ! त्वं सर्वशास्त्रार्थं वेत्तासि, सर्वकलासु कुशलोऽसि, विचक्षणोऽसि, पंडितोऽसि, लब्धलक्षोऽसि, उपदेशविषये चतुरोऽसि, जगति च प्रसिद्धोऽसि, अतो मम धर्माचार्येण सह त्वं विवादं कृत्वा तं निरुतरं कुरु ? यथाहमपि पुनस्तवमतं स्वीकरोमि गोशालोऽवादीत् भो सद्दालपुत्र स जिनेंद्रो ऽनंतशक्तिरस्ति, अहं च स्वल्पशक्तिरस्मि तेन वीरेण सह विवाद कर्तुमहं न समर्थः, श्रीवीरप्रभुः सर्वज्ञोऽस्ति, ततोऽल्पज्ञो वराकोऽहं तत्प्रश्नानामुत्तरं दातुं सर्वथा न शक्तोऽस्मि, यतो बको हंसगत्या गंतुं निजसर्वशक्त्यापि समर्थो न भवति, किंच यथा भास्करो जगत् प्रकाशयति तथा दीपस्तत्प्रकाशयितुं किं समर्थो भवति ? तत् श्रुत्वा सद्दालपुत्रेणोक्तं भो गोशालाक ! त्वं श्रीवीरप्रभोः सत्यगुणकीर्त्तनं करोषि तेन त्वां शय्यासंस्तारकाद्यर्थमहं निमंत्रयामि, न तु धर्मनिमित्तेन ततो गोशालकस्तस्यापणात्पीठफलकशय्यासंस्तारकादि गृहीत्वा तद्दत्तशालायां स्थितो युक्तिहेत्वादिभिरात्मीयमतं प्ररूपयामास, परं स सद्दालपुत्रस्य मनो जिनोक्तधर्मान्मनागपि चालयितुं न
शशाक.
अथ तं जिनोक्तधर्मे एव रक्तं विज्ञाय गोशालोऽन्यत्र जगाम एवं श्रीवोरभाषितधर्मं कुर्वतः सद्दालपुत्रस्य चतुर्दश
सद्दालपुत्र चरित्रम् ॥
॥२४७॥