________________
श्रीवर्धमान जिन देशना ॥२४६॥
सद्दालपुत्र चरित्रम् ॥
18--228 带端端端器器端游離器帶幾號懿端端端帶路聯強強聯路
स्तत्र समागतः, आत्मीयोपासकानां विशालशालायां चागत्य समवसृतः, ततोऽसौ तत्र निजोपकरणादिकं मुक्त्वा विविधयुक्तीविचारयन् सद्दालपुत्रस्य गृहे समेतः, तदा निजशिष्यादिपरिवारयुतं गोशालकं स्वगृहे समागतं विलोक्य सद्दालपुत्रेण तस्य सन्मुखमपि न दृष्टं, नमस्कारभक्त्यादेश्च का कथा ?
अथ स सद्दालपुत्रस्य तत्स्वरुपं विज्ञाय पीठफलकसंस्तारकाद्यर्थ तस्याग्रे श्रीवीरप्रभोः सत्यगुणकीर्तनं चकार. भो सद्दालपुत्र किमत्र महामाहनः समागत आसीत् ? तेनोक्तं भो गोशालक को महामाहन ? गोशाल उवाच स महावीरो जगति महामाहनः कथ्यते, तेनोक्तं कथं स महामाहनः? गोशालेनोक्तं स उत्पन्नज्ञानत्रलोक्यार्चनीयोऽस्ति, तेन च स महामाहनः कथ्यते- किं च स एव महागोपालोऽस्ति, सद्दालपुत्रेण पृष्टं कथं स महागोपाल कथ्यते ? तेनोक्तं गोपालो य
था गोवर्ग वने चारयति, इतस्ततश्च गच्छत सन्मार्गे समानयति, सिंहादिऋरश्वापदैश्च रक्षति संध्यायां च वाटके प्रवेशयति | तथा स वीरजिनोऽपि भवाटव्यां शुभमार्गपरिभ्रष्टान् भव्यजीवान् शीघ्रमेव शिववाटके क्षिपति. एवं शुद्धधर्मप्रदानेन स | गोपाल उच्यते. किंच स महासार्थवाहोऽपि कथ्यते, सद्दालपुत्रोऽवादीत भो गाशाकक ! स कथं महासार्थवाहः कथ्यते ?
तेनोक्तं यथा सार्थवाहः सर्वजनसमूहं निजसाथै गृहाति, चौरादीनां भयं च दरीकरोति, मार्ग दर्शयश्चाभीष्टनगरे पापयति, तथा श्रीवीरजिनोऽपि जनानां मिथ्यात्वं दूरीकृत्य सम्यगरत्नं च दवा शुद्धसंयममार्ग प्रदर्य निर्वाणपुरं प्रापयति, तेनासौ महासार्थवाहः कथ्यते. किं च स निर्यामकोऽप्युच्यते, सदालपुत्रेण पृष्टं कथं स निर्यामकः कथ्यते ? गोशालः प्राह यथा निर्यामको जनान् प्रवहणे चटाप्य महासमुद्रान्मकरादिभी रक्षयन् तटे प्रापयति.
柴聯晚晚张晓晓晓帶柴柴榮路榮路榮聯端端端帶聯影能號聯強聯聯
॥२४६॥