________________
श्रीवद्धमान जिन देशना ॥२१०॥
*****
सा तो निर्गता, धिष्टोऽपि प्रच्छन्नं तत्पृष्टे निर्गतः,
अथ सातिदूरे गत्वैकस्मिन् विवरे प्रविष्टा, तत्र स्थिताः काश्विद्योगिन्यस्तां दृष्ट्वोत्थाय कथयामासु मातः स्वागतं ते, इत्युक्त्वा तां नत्वासने चोपाविश्य तास्तस्याः सेवां कर्तुं लग्नाः, ततस्ताभिरुक्तं ' हे मातरथास्माकं निजसुतानां बलिं कदा दास्यसि ?' वृद्धयोक्तं ' हे पुत्रिका यूयं धीरा भवथ ? युष्मदर्थं सप्त पुरुषान् हत्वा बलिमानयिष्यामि परमेकः सप्तमः पुरुषो योग्य प्राप्तोऽस्ति, सोऽतीवकृशो वर्त्तते. अतश्चतुर्दशीं यावत्तिष्टत ? तावत् सोऽपि पुष्टो भविष्यति. '
इत्युक्त्वा सा ताभिः समं मांसादिकं भक्षयित्वा पश्चादागता. धिष्टोऽपि स्तंभांतरे स्थित्वा तत्सर्वं विलोक्य तस्याः पूर्वं तत्रागत्य सुप्तः इतः सापि तत्रागत्य वृद्धारूपं विधाय मंचकोपरि सुप्ता,
अथ विष्टश्चिन्तयति नूनमेषा दुष्टास्मान् विश्वास्य मारयिष्यति, हा हा पुनरपि शाकिनी संकटेऽहं पतितः, यत्र यत्र व्रजामि तत्र तत्र मे शाकिनीसंयोगो भवति.
अथ सूर्योदये ते सप्तापि तृणनिमित्तं वनमध्ये गताः, मार्गे धिष्टेन तेषां पणामप्यग्रे रात्रिवृत्तांतः कथितः, तैरुक्तमस्माभिस्तु मातुरेवंविधं चरित्रं कदापि न दृष्टं त्वया तु कथं दृष्टं ? धिष्टेनोक्तं यूयं सुखलुब्धास्तत्र तिष्टत ? अहं त्वग्रे यास्यामि, तैरुक्तं हे भ्रातरेकां निशां यावच्वं विलंब कुरु ? अद्य चास्माकं तस्याश्चरित्रं दर्शय ? तेनापि तत्प्रतिपन्नं.
अथ ते तृणभारानानीय तत्रागत्य दिनकृत्यं कृत्वा रात्रौ तस्याश्चरित्रविलोकनार्थं पूर्ववत्कपटनिद्रया सुप्ताः ततस्तै रजन्यां तस्याः सर्वे चरित्रं विलोकितं. जातप्रत्ययैस्तैरुक्तमथाधुनास्माभिः किं कर्त्तव्यं. घिष्ट उवाच भो एषा द्रुतं मारणीयैव.
श्रीसुरादेवचरित्रम् ॥
॥२१०॥