________________
श्रीवर्द्धमान
श्रीसुरादेव चरित्रम् ।
| अधुना तु वनमेव मम शरणं गृहे गृहे शाकिन्यो वर्तन्ते. जिन देशना
इत्युक्त्वा सूरो ग्रे गच्छन् महारण्ये पतितः. तत्रासौ षट् पुरुषानतिपुष्टान् शिरसि तृणभाराकांतान् दृष्ट्वा तत्पाचे ॥२०॥
गत्वाऽपृच्छत् , 'भो अस्मिन्निर्मानुष्ये वने मणिमाणिक्यसुवर्णाभरणालंकृतशरीरा यूर्य के ? तृणभारं च कथं वहथ ?' तैरुक्तं 'भो पुरुष शृणु ? अस्मिन् वनखंडे ह्येका जराजर्जरितदेहा वृद्धा वसति, सोऽस्मत्पार्थानित्यं तृणभारानानायति, अस्माकं च सान्नवस्त्राभरणानि ददाति, सा प्रत्यक्षा कल्पवल्लीव दृश्यते.' तत् श्रुत्वा मूरेण चिन्तितं ताहमपि तत्र गत्वा तत्स्वरूपं पश्यामीति ध्यात्वा सोऽपि तृणभारं गृहीत्वा तैः साई चलितः, तैः पुरुषैस्तस्मै पृष्टं भो 'तव नाम किमस्ति ?' तेनोक्तं 'मम नाम धिष्टकः,' ततस्ते सर्वेऽपि तत्र गताः, सप्तमं पुरूष नवीनं दृष्ट्वा तया पृष्टं 'भो एषोऽतिषः सप्तमः कोऽस्ति ? तेरुक्तं 'मातरेष वनमध्येऽस्माकं मिलितः, मातुः पाददर्शनार्थं च समागतोऽस्ति.'
तत् श्रुत्वा वृद्धया तस्य पृष्टे हस्तं दत्वोक्तं 'वत्स ! स्वागतं ते, त्वमतीवकृशोऽसि, अतस्त्वमत्रैव मत्पार्श्वे स्थित्वा नि:* शंकं सुखेन तिष्ट भुक्ष्व च ?' धिष्टेनोक्तं 'मातरहं जन्मदुःखितोऽस्मि, अतस्तवैव पार्श्व स्थास्यामि.' ततः सा तस्य स्नानानंतरं चारुवस्त्राणि परिधाप्य विविधव्यंजनोपेतं मनोहरं भोजन कारयामास ।
अथ घिष्टेन चिन्तितमेषा तृणभारः किं करोति ? तन्मयाद्य दृष्टव्यमिति ध्यात्वा रात्रौं स तैः सर्वैः पुरुषः सह कपटनिद्रया सुप्तः, अथार्द्धरात्रौ सा वृद्धोत्थाय प्रकटं जजल्प, 'अरे ! युष्मासु कोऽपि जागर्ति न वा ? ' परं कोऽपि न जजल्प. तदा सा वृद्धा कुमंत्रण स्वयं घोटिकीभृय तृणभारान् भक्षयित्वाभरणादिभिरलंकृतातीवतरुणी कामिनीरूपा जाता. ततः
路器器鉴器蒸器等器器整器器鉴器發器晓器器端帮
劳佛告弟弟带张能带聯蒂蒂蒂蒸蒸蒸蒸器藥藥张继號跳號號柴柴聯聯發
॥२०९॥