________________
श्री बर्द्धमान जिन देशना
॥१८॥
श्रीकामदेवस्योपसर्गाः
號繼器端藥器端端藥幾號號聽聽聽聽器端幾號幾號幾號樂器器繼器
जठरं, नकुलसर्परूपे च कर्णाभरणे स्त:. एवंविधो भयंकररूपधारी स पिशाच किलकिलशब्दं कुर्वन् , मुखाच्च जिह्वां निष्कासयत् अट्टहासं कुर्वन् हस्ते खड्गं विधाय कायोत्सर्गस्थितं कामदेवं प्रत्यवादीत् 'भो कामदेव ! त्वं प्रत्यक्षाणि विषयसुखानि त्यक्त्वा श्रावकवतानि कथं समाचरसि ? मदाज्ञया त्वं श्रावकवतानि त्यक्त्वा भोगान् भुंक्ष्व ? अन्यथानेन खड्न तव मस्तकं छेत्स्यामि. ततश्चाकाले मृत्वा त्वमनंतदुःखानि लप्स्यसे.' तत् श्रुत्वा कामदेवन्तु स्वध्यानस्थ एव मौनेन स्थितः, तदा स देवोऽपि तं कामदेवं स्थिरचित्तं विज्ञाय द्वित्रिवार तथैव कथयामास, तथापि स ध्यानान्न चचाल,
नदासौ देवः क्रोधेन भीषणां भृकुटि विधाय कामदेवं प्रति खड्गप्रहारानकरोत. परं कामदेवस्तया तीनवेदनयापि निजशुभध्यानान चचाल. यतः
१धीराण कायराण य । कसवहो संकडे समावडिए |
नियमपरिपालणेसु सुत्थावत्थो य सम्वोवि ॥१॥ __ अथ विलक्षोभूतोऽसौ देवो गजरुपं विकुळ घोरगरिवं कुर्वन् शुंडादंडमुल्लालयन् कथयामास, 'रे कामदेव ! अधुनापि त्वं मद्वचनं कुरु ? अन्यथा त्वां गगने समुच्छाल्य पादेन मर्दयिष्यामि.' तत् श्रुत्वापि ध्यानादचलितं कामदेवं स त्रिवारं गगने समुच्छालयामास, पतंतं च तं दंताग्रेण गृहीत्वा पादेन मर्दयामासः. एवंविधां दुस्सहवेदनां सहमानोऽपि कामदेवो ध्यायान्न चलितः.
१ धीराणां कातराणां कषपट्टः संकहे समापतिते नियमपरिपालनेसु सुप्तावस्थश्च सोऽपि.
॥१८॥