________________
श्री वर्द्धमान जिन देशना
॥ १७९ ॥
ॐ
स्वर्णरूप्यमय जिनबिंब जिनमंदिरादिविधानतः शासनस्य प्रभावनामकरोत् एवं तस्य संसर्गात्तस्य भार्ये अपि जिनधर्मविषये परिणामयुते जाते. क्रमेणायुःक्षये रत्नसारकुमारः पंडितमरणेन कालं कृत्वाच्युतकल्पे देवो जातः, ततश्च्युत्वा महाविदेहे जिनधर्ममाराध्य स मुक्ति यास्यति एवं मुनिदानप्रभावख्यापकं परिग्रहपरिमाणव्रतग्रहणफलनिरूपकं श्रीरत्नसारकुमारदृष्टांतं श्रुत्वा भो भव्या यूयं धर्मविषये आदरं कुरुत ? इति जिनमुखादुपदेशं श्रुत्वा कामदेवोऽप्यानंदवत्प्रभुमुखात् श्राद्धधर्म जग्राह aaisa गृहे निजभार्यायै भद्रायै स्वधर्मप्राप्ति कथयामास तत् श्रुत्वा प्रमुदितया भद्रयापि शिवानंदावज्जिनधर्मः प्रतिपन्नः, एवं जिनोपदिष्टं जिनधर्मं कुर्वतोस्तयोश्चतुर्दशवर्षांव्यतिक्रांत
अथैकदा स कामदेवश्राद्धश्चिन्तयति 'इयत्कालं मया कुटुंबं पालितं, अथ श्रावकस्यैकादशप्रतिमा अप्यहमाराधयामि' इति ध्यात्वा निजस्वजनानाहूयाशनपानखादिमस्वादिमादिभिः संतोषयित्वा स पृच्छति, 'भो स्वजना युष्माकं यद्यादेशो भवेत्तदा ज्येष्ठपुत्रे कुटुंबभारं समारोप्याह मेकादशप्रतिमाः समाराधयामि इति स्वजनानापृच्छथ ज्येष्टपुत्रे च कुटुंबभारं समप्य स्वयं च पौषधशालायां समागत्य स्थानं प्रमार्जयित्वा दर्भसंस्तारकं विधाय तत्रोपविश्यानंदवत् श्रीजिनध्याने स तत्परो बभूव, क्रमे कादशप्रतिमाच समाराधयामास.
अथैकदा निशायां कोsपि मिध्यादृष्टिः सुरः पौषधशालायां समागत्य भयंकरं पिशाचरूपं विधाय तं विविधानुपसर्गान् कृतवान् तस्य पिशाचस्य हस्तिकुंभतुल्यं मुखं, अतीवकृशौ चरणौ, अप्रशस्तं मस्तकं, कपिलाः केशाः सूर्पतुल्या नखाः, खिसकिलीपुच्छसदृशे भ्रूलते, अग्निवदेदीप्यमाने नयने, कद्दालतुल्या दंता, चिर्पटा नाशिका, श्यामवर्णी देहः, गर्गरीतुल्यं
श्रीरत्नसार
कथा ॥
॥ १७९॥