________________
श्री वर्द्धमान जिन देशना * ॥१४७॥
श्रावक प्रतिमा स्वरूप ।।
'भद्रे श्रीमहावीरदेवो दूतपलाशे चैत्ये समागतोऽस्ति, तस्य पार्थाच्च मया श्राद्धधर्मो गृहीतोऽस्ति, कअतस्त्वमपि नत्र गत्वा स्वामिपाद्धर्म गृहीत्वा निजजन्म सफलं कुरु ? तत् श्रुत्वा सापि हृष्टा सती समवसरणे गत्वा जिनं च वंदित्वैवमवदत्, 'हे स्वामिन् ! ममाग्रेऽपि श्रावकधर्म कथयत! यथा तं श्रावकधर्म प्रतिपद्याहमपि संसारसमुद्रं तरामि.' तदा स्वामिनाऽपि धर्म प्ररूपिते सति शिवानंदयापि श्रावकधर्मो गृहीतः. ततः सा जिनवरेन्द्रं वन्दित्वा स्वगृहे गता.
ततः श्रीगौतमस्वामी प्रभुं वंदित्वा पृच्छति, 'हे स्वामिन् ! आनंदश्राद्धः किं यतिधमै गृहीष्यति न वा ?' तदा श्रीवर्द्धमानः कथयति 'हे गौतम ! स आनंद इह भवे यतिधर्म न गृहीष्यति.' अथ सा शिवानंदा आनंदश्चापि जिनधर्म सावधनतया हृष्टमनसा कुरुतः. यतः
भवसयसहस्सदुलहे, जाइजरामरणसायरुत्तारे। जिणवयणमि गुणायर, खणमवि मा काहिसि | पमायं ॥१॥
एवं तस्यानंदस्य जिनधर्म कुर्वतश्चतुर्दश संवत्सरा जाताः,
अथ पंचदशमे वर्षे आनंदो धर्मविषये सावधानः सन्नेवं चिन्तयति, 'एतत्कालावधि मया कुटुंबप्रभुत्वं पालितं, अधुना यदि प्रतिमारुपं धर्म करोमि तदा वरं. इति ध्यात्वा तेन सर्वमपि निजकुटुंब भोजितं. अशनपानखादिमस्वादिमवस्त्रपात्रतांबू-| लादिभिः कुटुंबं संतोषयित्वा स एवमवादीत् 'भो स्वजना यदि यूयं मेऽनुजानिध्वे तदाहं ज्येष्ठपुत्रे गृहभारं संस्थाप्य श्री१ भवशतसहस्रदुर्लभे जातिजरामरण सागरुत्तरणे जिनवचने गुणाकर क्षणमपि मा कापी प्रमाद ।
॥१४७॥