________________
३. परोक्ष-प्रकाशः
१३१
निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेऽर्थकृत् ॥ १०८ ॥ इति ।
$ ८७. ततो " नयप्रमाणाभ्यां वस्तुसिद्धि:' इति सिद्ध: सिद्धान्तः । पर्याप्तमागमप्रमाणम् ।
त्वानित्यत्वादीनां सर्वथैकान्तरूपाणां धर्माणां मिथ्यात्वात्तत्समुदायरूपः स्याद्वादिभिरभ्युपगतोऽनेकान्तोऽपि मिथ्यैव स्यात् । न हि विषकणिकाया विषत्वे तत्समूहस्याविषत्वं कैश्चिदभ्युपगम्यते । तन्न युक्तम् ; मिथ्यासमूहस्य जैनैरनभ्युपगमात् । मिथ्यात्वं हि निरपेक्षत्वम्, तच्च नास्माभिः स्वीक्रियते, सापेक्षाणामेव धर्माणां समूहस्यानेकान्तत्वाभ्युपगमात् । तत एव चार्थक्रियाकारित्वम्, अर्थक्रियाकारित्वाच्च तेषां वस्तुत्वम् । क्रम- यौगपद्याभ्यां ह्यनेकान्त एवार्थक्रिया व्याप्ता नित्यक्षणिकाद्येकान्ते तदनुपपत्तेः। तथा च निरपेक्षा नया मिथ्या – अर्थक्रियाकारित्वाभावादसम्यक्, अवस्तु इत्यर्थः । सापेक्षास्तु ते वस्तु – सम्यक्, अर्थक्रियाकारित्वादिति दिक् ।
१ 'निरपेक्षत्वं प्रत्यनीकवर्मस्य निराकृतिः सापेक्षत्वमुपेक्षा, अन्यथा प्रमाणनयाविशेषप्रसङ्गात् । धर्मान्तरादानोपेक्षाहानि-लक्षणत्वात् प्रमाणनयदुर्नयानां प्रकारान्तरासम्भवाच्च' । श्रष्टश ० का ० १०८ । २ ते सापेक्षा नयाः । ३ अर्थक्रियाकारिणो भवन्तीति क्रियाध्याहारः । ४ पूर्वोक्तमेवोपसंहरति ततो इति । ५ नयशब्दस्याल्पाच्तरत्वात् 'प्रत्यासत्तेर्वलीयान्' इति न्यायाच्च पूर्वनिपातो बोध्यः । ६ यः खलु 'प्रमाणनयैरधिगम:' इति सिद्धान्तः प्रकरणादावुपन्यस्तः स सिद्ध इति भावः । ७ प्रागमाख्यं परोक्षप्रमाणं यथेप्सितं समाप्तम् ।