SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ १३२ न्याय-दीपिका 'मद्गुरोर्वर्द्धमानेशो वर्द्धमानदयानिधेः । श्रीपादस्नेहसम्बन्धात् सिद्धेयं न्यायदीपिका2 ॥२॥ इति श्रीमद्वर्द्धमानभट्टारकाचार्य गुरुकारुण्यसिद्धसारस्वतोदयश्रीमदभिनवधर्मभूषणाचार्यविरचितायां न्यायदीपिकायां परोक्षप्रकाशस्तृतीयः3 ॥३॥ समाप्तेयं न्यायदीपिका। -:: १ ग्रन्थकाराः श्रीमदभिनवधर्मभूषणयतयः प्रारब्धनिर्वहणं प्रकाशयन्नाहुर्मद्गुरोरिति । सुगममिदं पद्यम् । समाप्तमेतत्प्रकरणम् । जैनन्याय-प्रवेशाय बालानां हितकारकम् । दीपिकायाः प्रकाशाख्यं टिप्पणं रचितं मया ॥१॥ द्विसहस्र कवर्षाब्दे ख्याते विक्रमसंज्ञके । भाद्रस्य सितपञ्चम्यां सिद्धमेतत्सुबोधकम् ॥२॥ मतिमान्द्यात्प्रमादाद्वा यदत्र स्खलनं क्वचित् । संशोध्यं तद्धि विद्वद्भिः क्षन्तव्यं गुणदृष्टिभिः ॥३॥ इति श्रीमदभिनवधर्मभूषणयतिविरचिताया न्यायदीपिकाया न्यायतीर्थजैनदर्शनशास्त्रि-न्यायाचार्यपण्डितदरबारीलालेन रचितं प्रकाशाख्यं टिप्पणं समाप्तम् । -:: 1 द 'यद्गुरो' पाठः । 2 पद्यमिदं म प मु प्रतिषु नोपलभ्यते । 3 आ पद 'परोक्षप्रकाशस्तृतीयः' पाठो नास्ति । तत्र 'आगमप्रकाशः' इति पाठो वर्त्तते ।-सम्पा० ।
SR No.009648
Book TitleNyaya Dipika
Original Sutra AuthorN/A
AuthorDharmbhushan Yati, Darbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1968
Total Pages390
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy