________________
३. परोक्ष-प्रकाश:
१२९ 'अनियतानेकधर्मवद्वस्तुविषयत्वात्प्रमाणस्य, नियतैकधर्मवद्वस्तुविषयत्वाच्च नयस्य । यद्यनामाईती सरणिमुल्लङ्ध्य सर्वथैकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्चन, कथञ्चिदपि1 नाना नेत्याग्रहः स्यात्तदेतदर्थाभासः । एतत्प्रतिपादकं वचनमपि2 अागमाभासः, प्रत्यक्षेण “सत्यं भिदा तत्त्वं भिदा" [ ] इत्यादिनाऽऽगमेन च बाधित विषयत्वात् । सर्वथा भेद एव, न कथञ्चिदप्यभेद इत्यत्राप्येवमेव विज्ञेयम्', सद्रूपेणापि भेदेऽसत:
परिकल्पनीयम्, तथा चानवस्था इत्यत्राह अनेकान्तोऽप्यनेकान्त इति । इदमत्राकूतम्-प्रमाणनयसाधनत्वेनानेकान्तोऽप्यनेकान्तात्मकः । प्रमाणविषयापेक्षयाऽनेकान्तात्मकः, विवक्षितनयविषयापेक्षया एकान्तात्मकः। एकान्तो विविधः सम्यगेकान्तः मिथ्र्यकान्तश्च । तत्र सापेक्षः सम्यगेकान्तः, स एव नयविषयः । अपरस्तु निरपेक्षः, स न नयविषयः, अपि तु दुर्नयविषयः. मिथ्यारूपत्वात् । तदुक्तम्-'निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेऽर्थकृत्' इति । तथा चानेकान्तस्याप्यनेकान्तात्मकत्वमविरुद्धम्, प्रमाणप्रतिपन्ने वस्तुन्यनवस्थादिदोषानवकाशादिति ध्येयम् । १ प्रमाणनययोः को भेदः ? इत्यत आह अनियतेति । उक्तं च
'अर्थस्यानेकरूपस्य धीः प्रमाणं तदंशधीः ।
नयो धर्मान्तरापेक्षी दुर्नयस्तन्निराकृतिः ॥' २ तस्यापि प्रत्यक्षादिना बाधितत्वादर्थाभासत्वं बोध्यमिति भावः । ३ सय
1 द 'तत्कथंचिदपि'। 2 ा प 'एतत्प्रतिपादकमपि वचनं', म म 'एतत्प्रतिपादकमतिवचनं'।