SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ १२८ न्याय-दीपिका पृथग्व्यवहारनिबन्धना1 रूपवत्त्वादिस्वरूपभेदाः सम्भवन्ति तथैवेति सन्तोष्टव्यमायुष्मता। ___८४. एवमेव परमद्रव्याथिकनयाभिप्रायविषयः परमद्रव्यं सत्ता2, तदपेक्षया “एकमेवाद्वितीयं ब्रह्म, नेह नानास्ति किञ्चन", सद्रूपेण चेतनानामचेतनानां च भेदाभावात् । भेदे तु सद्विलक्षणत्वेन तेषामसत्त्वप्रसङ्गात्। ६८५. ऋजुसूत्रनयस्तु परमपर्यायाथिकः । स हि भूतत्वभविप्यत्वाभ्यामपरामृष्टं शुद्धं वर्तमानकालावच्छिन्नवस्तुस्वरूपं3 परामृशति । तन्नयाभिप्रायेण बौद्धाभिमतक्षणिकत्वसिद्धिः । एते नयाभिप्रायाः सकलस्वविषयाशेषात्मकमनेकान्तं प्रमाणविषयं विभज्य व्यवहारयन्ति । स्यादेकमेव वस्तु द्रव्यात्मना न नाना4, स्यान्नानैव पर्यायात्मना नैकमिति । तदेतत्प्रतिपादितमाचार्यसमन्तभद्रस्वामिभिः'अनेकान्तोऽप्यनेकान्तः प्रमाण-नयसाधनः । अनेकान्तः प्रमाणात्ते तदेकान्तोऽपितान्नयात् ॥ [स्वयम्भू० १०६ ] इति । (२) असत्त्वम्, (३) क्रमार्पितोभयं सत्त्वासत्त्वाख्यम्, (४) सहार्पितोभयमवक्तव्यत्वरूपम्, (५) सत्त्वसहितमवक्तव्यत्वम्, (६) असत्त्वसहितमवक्तव्यत्वम्, (७) सत्त्वासत्त्वविशिष्टमवक्तव्यत्वमिति । १ ननु सर्वस्य वस्तुनोऽनेकान्तात्मकत्वेऽनेकान्तस्याप्यनेकान्तात्मकत्वं 1 द 'निबन्धन' । 2 मु 'परमद्रव्यसत्ता' । 3 म मु 'वस्तुरूपं' । 4 म प मु 'स्यादेकमेव द्रव्यात्मना वस्तु नो नाना' ।
SR No.009648
Book TitleNyaya Dipika
Original Sutra AuthorN/A
AuthorDharmbhushan Yati, Darbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1968
Total Pages390
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy