________________
३. परोक्ष-प्रकाशः
१२५ नापि सम्यग्दर्शनज्ञानचारित्राणां मोक्षकारणत्वमेव, न संसारकारणत्वमिति विषयविभागेन कारणाकारणात्मकत्वं प्रतिपाद्यते। 'सर्व वाक्यं सावधारणम् इति न्यायात् । एवं प्रमाणसिद्धमनेकान्तात्मकं वस्तु।
[नयं स्वरूपतः प्रकारतश्च निरूप्य सप्तभङ्गीप्रतिपादनम्] ६८२. नया विभज्यन्ते।। ननु कोऽयं नयो नाम2 ? उच्यते; प्रमाणगृहीतार्थंकदेशग्राही प्रमातुरभिप्रायविशेष:3 । “नयो ज्ञातुरभिप्राय:।' [लघीय०का० ५२] इत्यभिधानात् । स नयः संक्षेपेण द्वेधा'—द्रव्याथिकनयः पर्यायाथिकनयश्चेति । तत्र द्रव्याथिकनयः
त्मकत्वं प्रसाध्यागमेनापि तत्प्रसाधनार्थमाह उदाहृतेति । अयं भाव:'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इत्यागमो यथा सम्यग्दर्शनादित्रयाणां समुदितानां मोक्षकारणत्वं प्रतिपादयति तथा संसारकारणत्वाभावमपि । तथा चागमादपि सम्यग्दर्शनादीनां कारणाकारणात्मकत्वमनेकान्तस्वरूपं प्रतिपादितं बोद्धव्यम् । - १ श्रुतज्ञानिनः । अभिप्रायो विवक्षा। २ सम्पूर्णश्लोकस्त्वित्थम्
ज्ञानं प्रमाणमात्मादेरुपायो न्यास इष्यते।।
नयो ज्ञातुरभिप्रायो युक्तिोऽर्थपरिग्रहः ॥ ३ 'नयो द्विविधः-द्रव्याथिक: पर्यायार्थिकश्च । पर्यायार्थिकनयेन पर्यायतत्त्वमधिगन्तव्यम् । इतरेषां नामस्थापनाद्रव्याणां द्रव्याथिकेन, सामान्यात्मकत्वात् ।'-सर्वार्थसि० १-६। यथोक्तं श्रीविद्यानन्दस्वामिभिःसंक्षेपाद् द्वौ विशेषेण द्रव्यपर्यायगोचरौ।'-त० श्लो० पृ० २६८ ।
1 द 'अथ नयं विभजति' पाठः। 2 द 'नाम नयः' । 3 ममु 'नयः' इत्यधिकः पाठः ।