SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ न्याय - दीपिका ८०. तथैवाजीवस्या मृद्रव्यस्यापि मृदः पिण्डाकारस्य व्ययः, पृथुवुध्नोदराकारस्योत्पाद:, मृद्रूपस्य ध्रुवत्वमिति सिद्धमुत्पादादियुक्तत्वमजीवद्रव्यस्य 2 ! स्वामिसमन्तभद्राचार्याभिमतानुसारी वामनोऽपि सदुपदेशात्प्राक्तनमज्ञानस्वभावं हन्तुमुपरितनमर्थज्ञानस्वभावं स्वीकर्तुं च यः समर्थ श्रात्मा स एव शास्त्राधिकारीत्याह "न शास्त्रमसद्द्रव्येष्वर्थवत्" [ ] इति । तदेवमनेकान्तात्मकं वस्तु प्रमाणवाक्यविषयत्वादर्थत्वेनावतिष्ठते । तथा च प्रयोगः - 'सर्वमनेकान्तात्मकं सत्त्वात् । यदुक्तसाध्यं न, तन्नोक्तसाधनम्, यथा गगनारविन्दमिति । ८१. ननु यद्यप्यरविन्दं गगने नास्त्येव तथापि सरस्यस्तीति ततो न सत्त्वरूप हेतु 4व्यावृत्तिरिति चेत्; तर्हि तदेतदरविन्दमधिकरणविशेषापेक्षया सदसदात्मकमनेकान्त मित्यन्वय दृष्टान्तत्वं ' भवतैव प्रतिपादितमिति सन्तोष्टव्यमायुष्मता । उदाहृतवाक्ये - भद्राचार्यैः १२४ ― प्रमाणगोचरौ सन्तौ भेदाभेदौ न संवृती । तावेकत्राविरुद्धौ ते गुणमुख्यविवक्षया ॥ १ यदुक्तम् - श्राप्तमी० ० का० ३६ । 'तद्रव्यपर्यायात्माऽर्थो बहिरन्तश्च तत्त्वतः ।' — लघीय० ० का० ७ । २ अरविन्दस्येति शेषः । ३ प्रत्यक्षेणानुमानेन च वस्तुनोऽनेकान्ता 1 मु' तथैवाजीवद्रव्यस्यापि २ म म 'मजीवस्य' 3 मु 'भिमतमतानु' । 4 श्रम मु 'सत्वहेतु' । 5 द मु 'इति' नास्ति ।
SR No.009648
Book TitleNyaya Dipika
Original Sutra AuthorN/A
AuthorDharmbhushan Yati, Darbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1968
Total Pages390
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy