________________
३. परोक्ष-प्रकाशः
१२३
द्रव्यस्य स्वर्गप्रापकपुण्योदये सति मनुष्यस्वभावस्य व्ययः, दिव्य1स्वभावस्योत्पादः, चैतन्यस्वभावस्य ध्रौव्यमिति । जीवद्रव्यस्य 'सर्वथैकरूपत्वे2 पुण्योदयवैफल्यप्रसङ्गात् । सर्वथा भेदे पुण्यवानन्यः फलवानन्य इति पुण्यसम्पादनवैयर्थ्यप्रसङ्गात्। उपरोपकारेऽप्यात्मसुकृतार्थमेव प्रवर्तनात्4 तस्माज्जीवद्रव्यरूपेणाभेदो मनुष्य देवपर्यायरूपेण भेद इति 6प्रतिनियतनयनिरस्तविरोधी भेदाभेदौ प्रामाणिकावेव ।
नियमः, नासौ दध्यत्ति-दधि भुंक्ते । यस्य च दध्यहं भुजे इति व्रतम् नासौ पयोऽत्ति-दुग्धं भुंक्ते । यस्य चागोरसमहं भुजे इति व्रतम्, नासावुभयमत्ति । कुतः ? गोरसरूपेण तयोरेकत्वात् । दुग्धव्रतस्य दधिरूपेणाभावात्, दधिव्रतस्य पयोरूपेणाभावात्, अगोरसवतस्य दधिदुग्धरूपेणाभावात् । तस्मात्तत्त्वं वस्तु त्रयात्मकं स्थित्युत्पत्तिव्ययात्मकं सुघटमेतदनेकान्ते जैनमते इति ।'-प्राप्तमी० वृ० का० ६० । श्रीपण्डितप्रवरराजमल्लेनाप्युक्तम्
कैश्चित्पर्य्ययविगमैव्येति द्रव्यं ह्य देति समकाले । अन्यैः पर्ययभवनधर्मद्वारेण शाश्वतं द्रव्यम् ॥
-अध्यात्मक०२-१६ । १ पर्यायेभ्यः सर्वथाऽभेदे । २ मनुष्यादिपर्यायेभ्यो जीवद्रव्यस्य कथञ्चिदप्यन्वयाभावे कृतस्य फलाभावादकृतस्य च फलप्राप्ते: पुण्यसम्पादनं व्यर्थमेव स्यात् । कृतनाशाकृताभ्यागमप्रसङ्गश्च स्यादिति भावः । ३ नहीमावनुभूयमानौ भेदाभेदौ मिथ्याभूतौ विरुद्धौ वा। तथा चोक्तं श्रीमत्समन्त
1 म मु 'देव'। 2 म प 'कान्तरूपे', मु 'कान्तरूपत्वे'। 3 म 'कारोऽप्या', मु 'कारस्याप्य' । 4 प 'प्रर्तमानात्', मु 'प्रवर्त्तमानत्वात्' । 5 म 'मनुष्यपर्यायदेवपर्याय' । 6 द 'प्रतिनियम' ।