________________
१२२
न्याय-दीपिका प्रस्तावे तयोः पृथग्निर्देशः । तदनयोगुणपर्याययोः द्रव्यमाश्रयः, “गुणपर्ययवद् द्रव्यम्” [तत्त्वार्थसू० ५-३८] इत्याचार्यानुशासनात्'। तदपि सत्त्वमेव “सत्त्वं द्रव्यम्"[ ] इत्यकलङ्कीयवचनात्2॥
[सत्त्वं द्विधा विभज्य द्वयोरप्यनेकान्तात्मकत्वप्ररूपणम् ]
७९. 'तदपि जीवद्रव्यमजीवद्रव्यं चेति संक्षेपतो द्विविधम् । 'द्वयमप्येतदुत्पत्तिविनाशस्थितियोगि “उत्पादव्ययध्रौव्ययुक्तं सत्" [तत्त्वार्थसू० ५-३०] इति निरूपणात्। तथा हि-जीव
१ उपदेशात् । २ भगवता श्रीउमास्वातिनाऽप्युक्तम्- 'सद्व्यलक्ष___णम्'-तत्त्वार्थसू० ५-२६ । ३ सत्त्वमपि । ४ जीवद्रव्यमजीवद्रव्यं चापि । ___५ समन्तभद्रस्वामिभिरपि तथैव प्रतिपादनात् । तथा हि
घट-मौलि-सुवर्णार्थो नाशोत्पाद-स्थितिष्वयम् । शोक-प्रमोद-माध्यस्थ्यं जनो याति सहेतुकम् ॥ पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे तस्मात्तत्त्वं त्रयात्मकम् ॥
-प्राप्तमी० का० ५६, ६० ।
इदमत्राकूतम्---सर्व हि वस्तुजातं प्रतिसमयमुत्पादव्ययध्रौव्यात्मकं समनुभूयते । घटार्थिनो हि जनस्य घटविनाशे शोकः, मुकुटार्थिनो मुकुटोत्पादे हर्षः, सुवर्णार्थिनश्च सुवर्णसत्त्वे माध्यस्थ्यं जायमानं दृश्यते । न चैतद् निर्हेतुकं सम्भवति । तेन विज्ञायते सुवर्णादिवस्तु उत्पादादित्रयात्मकम्, तदन्तरेण शोकाद्यनुपपत्तेरिति । एवं 'यस्य पयो दुग्धमेवाहं भुजे इति व्रतं
1 द 'तद्वदनयो' । 2 ा प 'इत्याकरज्ञवचनात्', मु 'इत्याकरजवचनात्' पाठः । मूले द प्रतेः पाठो निक्षिप्तः । स च युक्तः प्रतिभाति ।-सम्पा० ।