________________
३. परोक्ष-प्रकाशः
१२१ ७८. यावद्दव्यभाविनः सकलपर्यायानुवतिनो गुणाः वस्तुत्व-रूप-रस-गन्ध-स्पर्शादयः । मृद्रव्यसम्बन्धिनो हि वस्तुत्वादयः पिण्डादिपर्यायाननुवर्तन्ते, न तु पिण्डादयः स्थासादीन् । तत। एव पर्यायाणां गुणेभ्यो भेदः । यद्यपि सामान्यविशेषौ पर्यायौ तथापि सङ्केतग्रहणनिबन्धनत्वाच्छब्दव्यवहारविषयत्वाच्चागम2
11 १ गुणं लक्षयति यावदिति । २ वस्तुत्वप्रमेयत्वादयः सामान्यगुणाः । रूपरसादयो विशेषगुणाः । तेषां लक्षणं तु
सर्वेष्वविशेषेण हि ये द्रव्येषु च गुणाः प्रवर्त्तन्ते । ते सामान्यगुणा इह यथा सदादि प्रमाणतः सिद्धम् ॥ तस्मिन्नेव विवक्षितवस्तुनि मग्ना इहेदमिति चिज्जाः । ज्ञानादयो यथा ते द्रव्यप्रतिनियमिता विशेषगुणाः ॥
-अध्यात्मक० २-७, ८ । ३ गुणपर्याययोः को भेदः ? इत्यत्रोच्यते, सहभाविनो गुणाः, क्रमभाविनः पर्याया इति । गुणा हि द्रव्येण सह त्रिकालावच्छेदेन वर्तन्ते, न तु पर्यायाः, तेषां क्रमवत्तित्वादिति भावः। तथा चोक्तम्
अन्वयिनः किल नित्या गुणाश्च निर्गुणावयवा ह्यनन्तांशाः । द्रव्याश्रया विनाशप्रादुर्भावाः स्वशक्तिभिः शश्वत् ॥ व्यतिरेकिणो ह्यनित्यास्तत्काले द्रव्यतन्मयाश्चापि । ते पर्याया द्विविधा द्रव्यावस्थाविशेषधर्मांशाः ॥
-अध्यात्मक०२-६, ६। ४ ननु सामान्यविशेषावपि पर्यायावेव, तत्कथमत्र तयोः पर्यायेभ्यः पृथग् निर्देश इत्यत आह यद्यपीति । सामान्यविशेषौ यद्यपि पर्यायावेव तथाप्याऽऽगमप्रकरणानुरोधात्तयोः पृथग्निर्देशकर्त्तव्यस्यावश्यकत्वादिति ।
1 द 'अत' । 2 मु 'निबन्धनस्य शब्दव्यवहारविषयत्वादागम' । ।