________________
१२०
न्याय-दीपिका इत्याद्यनुवृत्तप्रत्ययसम्भवात् । विशेषोऽपि 'स्थूलोऽयं घटः, सूक्ष्मः' इत्यादिव्यावृत्तप्रत्ययालम्बनं। घटादिस्वरूपमेव । 'तथा चाह भगवान् माणिक्यनन्दिभट्टारक:- “सामान्य-विशेषात्मा तदर्थः" [परीक्षा० ४-१] इति ।
७७. "पर्यायो द्विविधः-अर्थपर्यायो व्यञ्जनपर्यायश्चेति। तत्रार्थपर्यायो भूतत्वभविष्यत्वसंस्पर्शरहितशुद्धवर्तमानकालाव2च्छिन्नं वस्तुस्वरूपम् । तदेतदृजुसूत्रनयविषयमामनन्त्यभियुक्ताः। एतदेकदेशावलम्बिन: खलु सौगताः क्षणिकवादिनः । व्यञ्जनं व्यक्तिः प्रवृत्तिनिवृत्तिनिबन्धनं जलानयनाद्यर्थक्रियाकारित्वम3, तेनोपलक्षितः पर्यायो व्यञ्जनपर्यायः, मृदादेः [यथा] पिण्डस्थास-कोश-कुशूल-घट-कपालादयः4 पर्यायाः।
नोक्तकारिकया दर्शितानि दूषणानि, तेषां गणः समूहस्तस्य प्रसरो विस्तरस्तस्य प्रसङ्गस्तस्मादित्यर्थः ।
१ अनुगतप्रतीतिभावात् । ततो घटत्वादिसामान्यं घटादिव्यक्तेः कथञ्चिदभिन्नमेवेत्यवसेयम् । २ तदुक्तं परीक्षामुखे-'विशेषश्च ।४-६। पर्यायव्यतिरेकभेदात् ।४-७। एकस्मिन् द्रव्ये क्रमभाविनः परिणामाः पर्याया अात्मनि हर्षबिषादादिवत् ।४-८। अर्थान्तरगतो विसदृशपरिणामो व्यतिरेको गो-महिपादिवत्' ।४-६। ३ स्वोक्तमेव प्रमाणयति तथा चाहेति । ४ संक्षेपतः सामान्यं विशेषं च निरूप्य पर्याय निरूपयितुमाह पर्यायेति ।
___ 1 मु 'वलम्वनं'। 2 प मु 'कालत्वाव'। 3 या 'निबन्धनजलानयनाद्यर्थक्रियाकारित्वे', म प मु 'निबन्धनजलानयनाद्यर्थक्रियाकारित्वं'। 4 द 'कपालमालादयः'।