________________
३. परोक्ष-प्रकाशः न याति न च तत्रास्ते न पश्चादस्ति नांशवत्।। जहाति पूर्वं नाधारमहो' व्यसनसन्ततिः ॥ [ ] - इति दिग्नागदर्शित2दूषणगणप्रसरप्रसङ्गात् । पृथुबुध्नोदराकारादिदर्शनानन्तरमेव 'घटोऽयं घटोऽयं गौरयं गौरयम्'
निरंशत्वेनास्यांशवत्तया प्रवृत्त्यसम्भवात् । सांशत्वे चास्य व्यक्तिवदनित्यत्वप्रसङ्गः । -स्वायकुमु० पृ० २८७, २८८ । 'क्वचिदेकत्र नित्यात्मन्याश्रये सर्वात्मना वृत्तं सामान्यं समवायश्च तावत् उत्पित्सुप्रदेशे प्राग्नासीदनाश्रितत्वप्रसङ्गात्, नान्यतो याति सर्वात्मना पूर्वाधारापरित्यागादन्यथा तदभावप्रसङ्गात्, नाप्येकदेशेन, सांशत्वाभावात्, स्वयमेव पश्चाद्भवति स्वप्रत्ययकारित्वात्, आश्रय विनाशे च न नश्यति. नित्यत्वात्, प्रत्येकं परिसमाप्त चेति व्याहतमेतत् ।'- अष्टस. पृ. २१६ । एतदुक्तानेव दोषान् दिग्नागोक्तकारिकया मूले दीपिकाकारो दर्शयति न यातीति ।
१ गोत्वादिसामान्यं हि व्यक्त्यन्तरं न गच्छति निष्क्रियत्वोपगमात् । २ व्यक्तिदेशे, यत्र गोपिण्ड उत्पद्यते तत्र न गोपिण्डोत्पादात्पूर्व चिते, देशस्यापि तस्य गोत्वापत्तेः । ३ न वा गोपिण्डोत्पादानन्तरं तेन सहोत्पद्यते, तस्य नित्यत्वाभ्युपगमात् । अन्यथाऽनित्यत्वानुष ङ्गात् । ४ न चांशसहितं निरंशत्वप्रतिज्ञानात्, अन्यथा सांशत्वप्रसङ्गात् । ५ न च प्राक्तनमाधारं गोपिण्डं त्यजति, तस्यागोत्वापत्तेः । ६ तदेवं गोत्वादिसामान्यस्य नित्यैकसर्वगतत्वाभ्युपगमे एतैर्दूषणैर्न परिमुच्यते सोऽयं यौगः । अहो आश्चर्य कष्ट वा एतेषामपरिहार्या व्यसनसन्ततिः दूषणपरम्परा, वृथा स्थितिरितियावत् । ७ कारिकेयं धर्मकीत्तिविरचिते प्रमाणवात्तिकेऽपि (१-१५३) मूलरूपेणोपलभ्यते । परमत्र ग्रन्थकृता नामोल्लेखपुरस्सरं दिग्नागस्योक्ता। ततः सम्भवति दिग्नागस्यैव कस्यचिद् ग्रन्थस्येयं कारिका स्यादिति । ८ दिग्नागे
1 प म 'नाशवत्' । 2 मु 'दूषित' ।