________________
न्याय-दीपिका
कत्वानुषङ्गाद्वयक्तिस्वरूपवत् । कात्स्न्यैकदेशाभ्यां वृत्त्यनुपपत्तेश्चासत्त्वम् । किञ्च, एकत्र व्यक्ती सर्वात्मना वर्त्तमानस्यान्यत्र वृत्तिर्न स्यात् । तत्र हि वृत्तिस्तद्देशे गमनात्, पिण्डेन सहोत्पादात्, तद्दे शे सद्भावात्, अंशवत्तया वा स्यात् ? न तावद् गमनादन्यत्र पिण्डे तस्य वृत्तिः; निष्क्रियत्वोपगमात् । किञ्च, पूर्वपिण्डपरित्यागेन तत्तत्र गच्छेत्, अपरित्यागेन वा ? न तावत्परित्यागेन, प्राक्तनपिण्डस्य गोत्वपरित्यक्तस्यागोरूपताप्रसङ्गात् । नाप्यपरित्यागेन, अपरित्यक्तप्राक्तनपिण्डस्यास्यानंशस्य रूपादेरिव गमना. सम्भवात् । न ह्यपरित्यक्तपूर्वाधाराणां रूपादीनामाधारान्तरसंक्रान्तिदृष्टा। नापि पिण्डेन सहोत्पादात्, तस्यानित्यत्वानुषङ्गात् । नापि तद्दे शे सत्त्वात्, पिण्डोत्पत्तेः प्राक् तत्र निराधारस्यास्यावस्थानाभावात् । भावे वा स्वाश्रयमात्रवृत्तित्वविरोधः । नाप्यंशवत्तया, निरंशत्वप्रतिज्ञानात् । ततो व्यक्त्यन्तरे सामान्यस्याभावानुषङ्गः । परेषाँ प्रयोगः 'ये यत्र नोत्पन्ना नापि प्रागवस्थायिनो नापि पश्चादन्यतो देशादागतिमन्तस्ते तत्राऽसन्तः, यथा खरोत्तमाले तद्विषाणम्, तथा च सामान्यं तच्छून्यदेशोत्पादवति घटादिके वस्तुनि' इति । उक्तं च
'न याति न च तत्रासीदस्ति पश्चान्न चांशवत् । जहाति पूर्वं नाधारमहो व्यसनसन्ततिः॥'-प्रमेयक० पृ० ४७३ । किञ्च, इदं सामान्य व्यक्तिभ्यो भिन्नं चेत् ; तत् व्यक्त्युत्पत्तौ उत्पद्यते न वा ? यद्युत्पद्यते, तद्वदेवानित्यत्वम् । नोत्पद्यते चेत्; तत् उत्पत्तिप्रदेशे विद्यते न वा ? यदि विद्यते, व्यक्त्युत्पत्तेः पूर्वमपि गृह्यत । अथ तद्देशे तत् नास्ति, उत्पन्ने तु व्यक्तिविशेषे व्यक्त्यन्तराद् आगच्छति । ननु ततः तत् आगच्छत् पूर्वव्यक्ति परित्यज्य प्रागच्छति न वा ? प्रथमपक्षे तस्याः तद्रहितत्वप्रसङ्गः । अथापरित्यज्य, तत्रापि किं व्यक्त्या सहैवागच्छति किं वा केनचिदंशेन तत्रैव तिष्ठति केनचिदागच्छति ? प्रथमविकल्पे शावले. येऽपि 'बाहुलेयोऽयम्' इति प्रतीतिः स्यात् । द्वितीयविकल्पस्त्वयुक्तः,