________________
३. परोक्ष-प्रकाशः
११७ लक्षणकथनम्। 'अनेके अन्ता धर्माः सामान्य-विशेष-पर्याय-गुणा। यस्येति सिद्धोऽनेकान्तः । तत्र सामान्यमनुवृत्ति2स्वरूपम् । तद्धि घटत्वं पृथुबुध्नोदराकारः3, गोत्वमिति सास्नादिमत्वमेव । तस्मान्न व्यक्तितोऽत्यन्तमन्यन्नित्यमेकमनेकवृत्ति' । अन्यथा
१ अनेकान्तस्य व्युत्पत्तिमुखेन लक्षणं निबध्नाति अनेके इति । २ अनुगताकारप्रतीतिविषयमित्यर्थः । अत्रायं विशेष:-'सामान्यं द्विविधम्-ऊर्ध्वतासामान्यं तिर्यक्सामान्यं चेति । तत्रोर्खतासामान्यं क्रमभाविषु पर्यायेष्वेकत्वान्वयप्रत्ययग्राह्य द्रव्यम् । तिर्यक्सामान्यं नानाद्रव्येषु पर्यायेषु च सादृश्यप्रत्ययग्राह्य सदृशपरिणामरूपम् ।'–युक्त्यनुशा० टी० पृ० ६० । 'सामान्यं द्वेधा तिर्यगूर्खताभेदात् । ४.३ । सदृशपरिणामस्तिर्यक् खण्डमुण्डादिषु गोत्ववत् । ४-४ । परापरविवर्त्तव्यापि द्रव्यमूर्खता मृदिव स्थासादिषु'।४-५।-परीक्षामुख । ३ 'सामान्यं द्विविधं परमपरं च । तत्र परं सत्ता, अपरं सत्ताव्याप्यं द्रव्यत्वादि । तत्र नित्यमनेकव्यक्तिवत्ति सामान्यम्, नित्यत्वे सति स्वाश्रयान्योन्याभावसामानाधिकरण्यां वा । परमपि सामान्यमपरमपि तथाऽपरं तु सामान्यं विशेपसंज्ञामपि लभते ।'-वैशेषिकसूत्रोप० पृ० ३४ । तन्न युक्तम्-'नित्यैकरूपस्य गोत्वादेः क्रम-योगपद्याभ्यामर्थक्रियाविरोधात् । प्रत्येक परिसमाप्त्या व्यक्तिषु वृत्ययोगाच्चानेक सदृशपरिणामात्मकमेवेति तिर्यक्सामान्यमुक्तम् ।'-प्रमेयर० ४-४, पृ० १७६ । 'तच्चाऽनित्यासर्वगतस्वभावमभ्युपगन्तव्यम्, नित्यसर्वगतस्वभावत्वेऽर्थक्रियाकारित्वायोगात् । तत् (सामान्यं) सर्वसर्वगतं स्वव्यक्तिसर्वगतं वा ? न तावत्सर्वसर्वगतम् ; व्यक्त्यन्तरालेऽनुपलम्यमानत्धाद्वयक्तिस्वात्मवत् । 'नापि स्वव्यक्तिसर्वगतम् ; प्रतिव्यक्ति परिसमाप्तत्वेनास्याऽनेHT1 मु 'पर्याया गुणा' । 2 म प मु 'अनुवृत्त'। 3 ा प 'पृथुबुघ्नोदराद्याकारः'।