________________
१२६
न्याय-दीपिका द्रव्यपर्यायरूपमेकानेकात्मकमनेकान्तं प्रमाणप्रतिपन्नमर्थं विभज्य पर्यायाथिकनयविषयस्य भेदस्योपसर्जनभावेनावस्थानमात्रमभ्यनुज़ानन्। स्वविषयं द्रव्यमभेदमेव व्यवहारयति, “नयान्तरविषयसापेक्षः सन्नयः”[ ]इत्यभिधानात् । यथा सुवर्णमानयेति । अत्र द्रव्याथिकनयाभिप्रायेण सुवर्णद्रव्यानयनचोदनायां कटकं कुण्डलं केयूरं चोपनयन्नुपनेता कृती भवति, सुवर्णरूपेण कटकादीनां भेदाभावात् । द्रव्याथिकनयमुपसर्जनीकृत्य प्रवर्त्तमानपर्यायाथिकनयमवलम्ब्य कुण्डलमानयेत्युक्ते न कटकादौ प्रवर्तते, कटकादिपर्यायात् कुण्डलपर्यायस्य भिन्नत्वात् । ततो द्रव्यार्थिकनयाभिप्रायेण सुवर्ण स्यादेकमेव । पर्यायाथिकनयाभिप्रायेण स्यादनेकमेव। क्रमेणोभयनयाभिप्रायेण स्यादेकमनेकं च3 । युगपदुभय4नयाभिप्रायेण स्यादवक्तव्यम्, युगपत्प्राप्तेन नयद्वयेन विविक्तस्वरूपयोरेकत्वानेकत्वयोविमर्शासम्भवात् । न हि युगपदुपनतेन शब्दद्वयेन घटस्य प्रधानभूतयो 5रूपवत्त्वरसवत्त्वयोविविक्तस्वरूपयो: प्रतिपादनं शक्यम् । तदेतदवक्तव्यस्वरूपं तत्तदभिप्रायैरुप
'स द्रव्यार्थिक: पर्यायाथिकश्च । द्रवति द्रोष्यति अद्रुवत् इति द्रव्यम्, तदेवार्थोऽस्ति यस्य सो द्रव्याथिकः ।' लघीय० का० स्वो० ३० । १उक्तं चमेदाभेदात्मके ज्ञेये भेदाभेदाभिसन्धयः । ये तेऽपेक्षानपेक्षाभ्यां लक्ष्यन्ते नयदुर्नयाः ॥-लघीय०का० ३० ।
1 द 'मभ्यनुजानानः'। 2 मु 'कटकादिपर्यायस्य ततो भिन्नत्वात्। 3 ___द 'च' नास्ति । 4 द ‘एवं च युगपदुभय' । 5 प्रा म मु 'रूपत्वरसत्वयो'।