________________
परोक्ष-प्रकाशः
सुगतादोनामाप्ताभासत्वमाप्तमीमांसाविवरण श्रीमदाचार्यपादैःरिति विरम्यते । वाक्यं तु तन्त्रान्तरसिद्धमिति नेह लक्ष्यते ।
१ अष्टशत्याम् । २ श्रीमद्भट्टाकलङ्कदेवैः। आप्तमीमांसालङ्कारे (अष्टसहस्रयां) च श्रीविद्यानन्दस्वामिभिरित्यपि बोध्यम् । ३ तदित्थम्'पदानां परस्परापेक्षाणां निरपेक्षः समुदायो वाक्यम् ।'–अष्टश० अष्टस० पृ० २८५ । 'वर्णानामन्योन्यापेक्षाणां निरपेक्षः समुदायः पदम् । पदानां तु परस्परापेक्षाणां निरपेक्षः समुदायो वाक्यम् ।'-न्यायकुमु० पृ० ७३७ । प्रमेयक० पृ० ४५८ । 'यस्य प्रतिपत्तुर्यावत्सु परस्परापेक्षेषु पदेषु समुदितेषु निराकाङ्क्षत्वं तस्य तावत्सु वाक्यत्वसिद्धिरिति प्रतिपत्तव्यम् ।'प्रमेयक० पृ० ४५८ । 'वाक्यं विशिष्टपदसमुदायः । यदाह
पदानां संहतिर्वाक्यं सापेक्षाणां परस्परम् । साख्यताः कल्पनास्तत्र पश्चात्सन्तु यथायथम् ॥'
-न्यायाव० टी० टि० पृ०८। 'वर्णानामन्योन्यापेक्षाणां संहतिः पदम्, पदानां तु वाक्यमिति ।प्रमाणनयत० ४-१०।
परैस्तु वाक्यलक्षणमित्थमभिमतम्-'पाख्यातं साव्ययं सकारकं स-कारक-विशेषणं वाक्यसंज्ञं भवतीति वक्तव्यम्, अपर आह-आख्यातं सविशेषणमित्येव । सर्बाणि ह्य तानि विशेषणानि । एकतिङ्, एकतिङ् वाक्यसंज्ञं भवतीति वक्तव्यम् ।' पात० महाभा० २-१-१ । 'तिङ्-सुबन्तचयो वाक्यं क्रिया वा कारकान्विता ।'-अमरको० । 'पूर्वपदस्मृत्यपेक्षोऽन्त्यपदप्रत्ययः स्मृत्यनुग्रहेण प्रतिसन्धीयमानो विशेषप्रतिपत्तिहेतुर्वाक्यम् ।'-न्यायवा० पृ० १६ । 'यावद्भिः पदैरर्थपरिसमाप्तिः तदेकं वाक्यम् ।'-वादन्याय० पृ० १०८ । 'पदसमूहो वाक्यम् । –न्यायम० पृ० ६३७ । न्यायवा० ता० पृ० ४३४ । 'वाक्यं पदसमूहः, यथा-गामा