________________
११४
न्याय-दीपिका अत उक्तं प्रत्यक्षेति । प्रत्यक्षप्रमितसकलार्थ इत्येतावत्युच्यमाना 'सिद्धेष्वतिव्याप्तिः । अत उक्तं परमेत्यादि2 । परमहितं3 निःश्रेय. सम्, तदुपदेश एवार्हतः4प्रामुख्येन प्रवृत्तिः । 'अन्यत्र तु प्रश्नानुरोधादुपसर्जनत्वेनेति भावः । नैवंविधः सिद्धपरमेष्ठी, तस्यानुपदेशकत्वात् । ततोऽनेन विशेषणेन तत्र नातिव्याप्तिः । आत्मसद्भावे प्रमाणमुपन्यस्तम् । नैयायिकाद्यभिमतानामाप्ताभासानामसर्वज्ञत्वात्प्रत्यक्षप्रमितेत्यादिविशेषणेनैव निरासः।
६७५. ननु नैयायिकाभिमत प्राप्तः कथं न सर्वज्ञः इति चेत्; उच्यते; तस्य ज्ञानस्यास्वप्रकाशकत्वादेकत्वाच्च विशेषणभूतं स्वकीयं ज्ञानमेव न जानातीति तद्विशिष्टमात्मानं 'सर्वज्ञोऽहम्' इति कथं जानीयात् ? एवमनात्मज्ञोऽयमसर्वज्ञ एव । प्रपञ्चितं च
१ अशरीरिणो मुक्तात्मानः सिद्धाः सिद्धपरमेष्टिन इत्युच्यन्ते । उक्तं च'णिक्कम्मा अट्टगुणा किंचूणा चरमदेहदो सिद्धा।
लोयग्गठिदा णिच्चा उप्पाद-वयेहि संजुत्ता ॥'-द्रव्यसं० १४ । २ निःश्रेयसातिरिक्ते विषये । ३ अमुख्येन, गौणरूपेणेत्यर्थः। ४ द्वितीयप्रकाशे । ५ व्यावृत्तिः, ततो न तत्राप्यतिव्याप्तिरिति भावः । ६ नैयायिका हि ज्ञानं ज्ञानान्तरवेद्यं मन्यन्ते । ततो तैराप्तत्वेनाभिमतो महेश्वरः स्वज्ञानस्याप्रवेदनात्तद्विशिष्टस्यात्मनोऽप्यज्ञानान्न सर्वज्ञ इति भावः।
1 द 'इत्युच्यमाने' मु 'इत्येतावदुच्यमाने'। 2 द 'परमेति'। 3 मु परमं हितं' 4 म 'सम्भवति' इत्यधिकः पाठः ।