________________
३. परोक्ष-प्रकाशः
११३ इत्यभियुक्तवचनात् । तत प्राप्तवाक्यनिबन्धनमर्थज्ञानमित्युक्तमागमलक्षणं निर्दोषमेव । यथा-"सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः” [तत्त्वार्थसू० १-१] इत्यादिवाक्यार्थज्ञानम् । सम्यग्दर्शनादीनि1 मोक्षस्य सकलकर्मक्षयस्य मार्ग उपायः, न तु मार्गाः । ततो भिन्नलक्षणानां दर्शनादीनां त्रयाणां समुदितानामेव मार्गत्वम्, न तु प्रत्येकमित्ययमर्थो मार्ग इत्येकवचनप्रयोगतात्पर्य2 सिद्धः । अयमेव वाक्यार्थः । अत्रैवार्थे प्रमाणसाध्या संशयादिनिवृत्तिः3 प्रमितिः।
[आप्तस्य लक्षणम् ] ७४. 'कः पुनरयमाप्तः इति चेत् ; उच्यते ; प्राप्तः प्रत्यक्षप्रमितसकलार्थत्वे सति परमहितोपदेशकः । प्रमितेत्यादावेवोच्यमाने श्रुतकेवलष्वतिव्याप्तिः, तेषामागमप्रमितसकलार्थत्वात् । वाक्यजन्येषु सुप्तोन्मत्तादिवाक्यजन्येषु वा नदीतीरफलसंसर्गादिज्ञानेष्वतिव्याप्तिः, अत उक्तमाप्तेति । प्राप्तवाक्यनिबन्धनज्ञानमित्युच्यमानेऽप्याप्तवाक्यकर्मके (कारणे) श्रावणप्रत्यक्षेऽतिव्याप्तिरत उक्तमर्थेति । अर्थस्तात्पर्यरूढः, प्रयोजनारूढ इति यावत् । तात्पर्य मेव वचसीत्यभियुक्तवचनात वचसां प्रयोजनस्य प्रतिपादकत्वात्।'-प्रमेयक० टि० पृ०३६१। प्रमेयर० टि० पृ० १२४ ।
१ आप्तस्य स्वरूपं जिज्ञासमानः परः पृच्छति कः पुनरयमाप्त इति । २ 'तत्राप्तिः साक्षात्करणादिगुणः "सूक्ष्मान्तरितदूरार्थाः कस्यचित्प्रत्यक्षाः" इत्यादिना साधितः'। अष्टश० अष्टस० पृ० २३६ । तया विशिष्टो योऽसावाप्त इति भावः । ३ श्रुतकेवलिनो हि श्रुतेन सकलार्थान् प्रतिपद्यन्ते । ॐ 1 मु प 'दीन्यनेकानि', म 'दीन्येतानि'। 2 मु 'प्रयोगस्तात्पर्य' । 3 मु 'साध्यसंशयादिनिवृत्तिः' ।