SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ११२ न्याय-दीपिका मनम्-तस्मादग्निमानेवेति । अनयोर्व्यत्ययेन' कथनमनयोराभासः । अवसित 1मनुमानम् । ___ [परोक्षप्रमाणभेदस्यागमस्य निरूपणम् ] ७३. 'अथागमो लक्ष्यते2 । प्राप्तवाक्यनिबन्धनमर्थज्ञानमागमः । अत्रागम इति लक्ष्यम् । अवशिष्टं लक्षणम् । अर्थज्ञानमित्येवंतावत्युच्यमाने प्रत्यक्षादावतिव्याप्तिः, अत उक्तं वाक्यनिबन्धनमिति । वाक्यनिबन्धमर्थज्ञानमित्युच्यमानेऽपि 5यादच्छिकसंवादिषु विप्रलम्भवाक्यजन्येषु सुप्तोन्मत्तादिवाक्यजन्येषु वा नदीतीरफलसंसर्गादिज्ञानेष्वतिव्याप्तिः, अत उक्तमाप्तेति । आप्तवाक्यनिबन्धनज्ञानमित्युच्यमानेऽप्याप्तवाक्यकर्मके श्रावणप्रत्यक्षेऽतिव्याप्तिः, अत उक्तमर्थेति । अर्थस्तात्पर्यरूढ:6 [प्रयोजनारूढ] इति यावत् । अर्थ एव7 'तात्पर्य मेव वचसि'[ ] .. १ विपरीतक्रमेण, क्रमभङ्ग नेत्यर्थः । २ निर्णीतम् । ३ विस्त रतोऽनुमानं प्ररूप्याधुना क्रमप्राप्तमागमं लक्षयति अथेति । ४ 'प्राप्तवचनादिनिबन्धनमर्थज्ञानमागमः' । परीक्षा-३-१९ । प्राप्तस्य वाक्यं वचनं तन्निबन्धनं यस्यार्थज्ञानस्येत्याप्तवाक्यनिबन्धनमर्थज्ञानमिति । अत्र 'आप्तशब्दोपादानादपौरुषेयत्वव्यवच्छेदः । अर्थज्ञानमित्यनेनान्यापोहज्ञानस्याभिप्रायसूचनस्य च निरासः।-प्रमेयर० पृ. १२५ । ५ प्राप्तो यथार्थवक्ता। ६ उक्तं च-'अर्थज्ञान मित्येतावत्युच्यमाने प्रत्यक्षादावतिव्याप्तिरत उक्तं वाक्यनिबन्धनमिति । वाक्यनिबन्धनमर्थज्ञानमित्युच्यमानेऽपि यादृच्छिकसंवादिषु विप्रलम्भ. 1 मु 'इत्यवसित' । 2 द 'लिख्यते'। 3 द 'तत्रागम'। 4 म मु 'तावदुच्यमा' । 5 द 'यादृग्विसंवादिविप्रलम्भ'। 6 म म प 'तात्पर्य रूप'। 7 मु 'अर्थ एव' नास्ति ।
SR No.009648
Book TitleNyaya Dipika
Original Sutra AuthorN/A
AuthorDharmbhushan Yati, Darbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year1968
Total Pages390
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy