________________
३. परोक्ष-प्रकाशः श्रयः । प्रपञ्चितमेतदुपाधिनिराकरणं कारुण्यकलिकायामिति विरम्यते।
[उपनयनिगमनयोस्तदाभासयोश्च लक्षणकथनम् ] ७२. साधनवत्तया पक्षस्य दृष्टान्तसाम्यकथनमुपनयः-तथा चायं धूमवानिति । साधनानुवादपुरस्सरं साध्यनियमवचनं निगप्रतियोगित्वं साध्यव्यापकत्वं । साधनवनिष्ठाऽत्यन्ताभावप्रतियोगित्वं साधनाऽव्यापकत्वम् । यथा-'पर्वतो धूमवान् वह्निमत्त्वात्' इत्यत्राऽऽर्द्वन्धनसंयोग उपाधिः । तथा हि-'यत्र धृमस्तत्राऽऽर्टेन्धनसंयोगः' इति साध्यव्यापकत्वम्, 'यत्र वह्निस्तत्राऽऽन्धनसंयोगो नास्ति' अयोगोलके आर्द्वन्धनसंयोगाभावादिति साधनाऽव्यापकत्वम् । एवं साध्यव्यापकत्वे सति साधनाऽव्यापकत्वादा.न्धनसंयोग उपाधिः ।'–तर्कसं० पृ० ११४ । 'उपाधिश्चतुर्विधः-केवलसाध्यव्यापकः, पक्षधर्मावच्छिन्नसाध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापकः, उदासीनधर्मावच्छिन्नसाध्यव्यापकश्चेति । आद्य:आर्दैन्धनसंयोगः । द्वितीयो यथा—'वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात्' इत्यत्र बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकमद्भूतरूपवत्त्वम् । तृतीयो यथा –'प्रागभावो विनाशी जन्यत्वात्' इत्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापक भावत्वम् । चतुर्थस्तु 'प्रागभावो विनाशी प्रमेयत्वात्' इत्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम् ।'–तर्कदी० पृ० ११४-११६ ।
१ व्याप्तिलक्षणस्योपाधिगर्भत्वादुपाधिलक्षणस्य च व्याप्तिघटितत्वात् । तथा च व्याप्तिग्रहे सति उपाधिग्रहः स्यात् उपाधिग्रहे च सति व्याप्तिग्रहः स्यादित्येवमन्योन्याश्रयः । यथा चोक्तम्-नाप्यनौपाधिकः सम्बन्धः, उपाधेरेव दुर्वचत्वात् । सुवचत्वेऽपि दुर्ग्रहत्वात्, सुग्रहत्वेऽप्यन्योन्याश्रयात् । साध्यव्यापकत्वे सति साधनाव्यापकत्वादेर्व्याप्तिग्रहाधीनग्रहत्वात् ।'–वैशेषिकसूत्रोप० पृ० ६० ।