________________
११०
न्याय-दीपिका निश्चीयत' इति सन्दिग्धासिद्धः । मैत्रीतनयत्वं तुअकारणत्वादेव। श्यामत्वं कार्य न गमयेदिति । ___ ७१. केचित्2 "निरुपाधिक: सम्बन्धो व्याप्तिः" [ ] इत्यभिधाय "साधनाव्यापकत्वे सति साध्यसमव्याप्तिरूपाधि:५' [ ] इत्यभिदधते । सोऽयमन्योन्या
१ श्यामत्वसामग्रयन्तर्गतविशिष्टनामकर्मादेरतीन्द्रियत्वान्निश्चयासम्भवात् । २ मैत्रीतनयत्वस्य श्यामत्वं प्रति कारणत्वाभावादेव। ३ ननु नाकरणत्वान्मैत्रीतनयत्वं श्यामत्वं प्रत्यगमकम्, अपि तु व्याप्त्यभावात् । व्यप्तिर्हि निरुपाधिकः सम्बन्धः। स चात्र नास्त्येव, शाकपाकजत्वोपाधिसत्त्वेन मैत्रीतनयत्वस्य निरुपाधिकत्वासम्भवादिति केषाञ्चिदाशयं प्रदर्शयन्नाह केचिदिति। केचित् नैयायिकादय इत्यर्थः । ४ 'ननु कोऽयं प्रतिबन्धो नाम ? अनौपाधिकः सम्बन्ध इति ब्रूमः ।'—किरणावली पृ० २६७ । अनौपाधिक: सम्बन्धो व्याप्तिः । अनौपाधिकत्वं तु यावत्स्वव्यभिचारिव्यभिचारिसाध्यसामानाधिकरण्यम्, यावत्स्वसमानाधिकरणात्यन्ताभावप्रतियोगिप्रतियोगिकात्यन्ताभावसमानाधिकरणसाध्यसामानाधिकरण्यं वा । यावत्साधनाव्यापकाव्याप्यसाध्यसामानाधिकरण्यमिति निरुक्तिद्वयार्थः ।'–वैशेषिकसूत्रोपस्कार पृ० ६२ । ५ 'साधने सोपाधिः साध्ये निरूपाधिरेवोपाधित्वेन निश्चेयः। xxx उपाधिलक्षणं तु साध्यव्यापकत्वे सति साधनाव्यापत्वमित्युक्तमेव ।'-किरणावली पृ० ३००, ३०१ । 'नन्वनौपाधिकत्वमुपाधिविरहः, उपाधिरेव दुष्परिकलनीय इति चेन्न; साध्यव्यापकत्वे सति साधनाव्यापकत्वस्योपाधित्वात् । तदुक्तम्-साधने सोपाधिः साध्ये निरुपाधिरुपाधिः ।- वैशेषिकसूत्रोपस्कार पृ० ६३ । 'साध्यव्यापकत्वे सति साधनाऽव्यापकत्वमुपाधिः । साध्यसमानाधिकरणाऽत्यन्ताभावा
1 म 'अकारणादेव' । 2 मु कश्चित्' । 3 मु 'अभिधत्ते' ।