________________
३. परोक्ष- प्रकाशः
१०६ श्यामत्वं नास्ति तत्र तत्र मैत्रीतनयत्वं नास्ति' इति व्यतिरेकव्याप्तेश्च सम्भवान्निश्चितसाधने गर्भस्थमंत्रीतनये पक्षे साध्यभूतश्यामत्वसन्देहस्य'गुणत्वात् । सम्यगनुमानं प्रसज्येदिति चेत्; न; दृष्टान्तस्य विचारान्तरबाधितत्वात् ।
$ ७०. तथा हि- साध्यत्वेनाभिमतमिदं हि श्यामत्वरूपं 2 कार्य सत् स्वसिद्धये कारणमपेक्षते । तच्च कारणं न तावन्मैत्रीतनयत्वम्, विनाऽपि तदिदं पुरुषान्तरे' श्यामत्वदर्शनात् । न हि कुलालादिकमन्तरेण सम्भविनः पटस्य कुलालादिकं कारणम् । एवं मैत्रीतनयत्वस्य श्यामत्वं प्रत्यकारणत्वे निश्चिते यत्र यत्र मैत्रीतनयत्वं न तत्र तत्र श्यामत्वम्, किन्तु यत्र तत्र श्यामत्वस्य कारणं विशिष्टनामकर्मानुगृहीतशाकाद्याहारपरिणामस्तत्र तत्र तस्य कार्यं श्यामत्वम् इति सिद्धं सामग्रीरूपस्य विशिष्टनामकर्मानुगृहीतशाकाद्याहारपरिणामस्य श्यामत्वं प्रति व्याप्यत्वम् । स तु पक्षे' न
१ अतो गर्भस्थे श्यामत्वस्य सन्देहो गौणः, स च न मैत्रीतनयत्वहेतोः समीचीनत्वे बाधकः । तथा च तत्समीचीनमेंवानुमानमिति शङ्कितुर्भावः । २ मैत्रीतनयत्वम् । ३ मैत्रीपुत्रभिन्नपुरुषे । ४ ततो न मैत्रीतनयत्वमन्तरेण जायमानं श्यामत्वं प्रति मैत्रीतनयत्वं कारणमिति भावः । ५ इत्थं च । ६ श्यामत्वजनिका सामग्री, सा चात्र विशिष्टनामकर्मानुगृहीतशाकाच्चाहारपरिणामः, तत्सत्त्वे एव श्यामत्वसत्त्वम्, तदभावे च तदभाव इति भावः । ७ विशिष्टनामकर्मानुगृहीतशाकाद्याहारपरिणामः | ८ गर्भस्थे मैत्रीतनये I
1 म 'गोणत्वा' । 2 द श्रा ममु 'श्यामरूपं । 3श्रा प म मु -कुलालचक्रादिकमन्तरेणापि ।