________________
१०८
न्याय-दीपिका अनुमानस्य तावन्मात्रा1 पेक्षत्वात् । ततो यो यो धूमवानसावसावग्निमान्, यथा महानस इत्येवं सम्यग्दृष्टान्तवचनं वक्तव्यमा विपरीतवचनं तु दृष्टान्ताभास एवेत्ययमसम्यग्वचनरूपोऽन्वयदृष्टान्ताभासः । व्यतिरेकव्याप्तौ तु व्यापकस्याग्नेरभावो व्याप्यः, व्याप्यस्य धूमस्याभावो व्यापकः । तथा सति यत्र यत्राऽग्न्यभावस्तत्र तत्र धूमाभावो यथा ह्रद इत्येवं वक्तव्यम् । विपरीतकथनंत, असम्यग्वचनत्वादुदाहरणाभास एव । अदृष्टान्तवचनं2 तु, अन्वयव्याप्तौ व्यतिरेकदृष्टान्तवचनम्, व्यतिरेकव्याप्तावन्वयदृष्टान्तवचनं च, उदाहरणाभासौ। स्पष्टमुदाहरणम् । - ६६६. ननु गर्भस्थो मैत्रीतनयः3 श्यामः, मैत्रीतनयत्वातं, साम्प्रत4मैत्रीतनयवत् इत्याद्यनुमानप्रयोगे पञ्चसु मैत्रीतनयेष्वन्वयदृष्टान्तेषु 'यत्र यत्र मैत्रीतनयत्वं तत्र तत्र श्यामत्वम् इत्यन्वयव्याप्तेः, व्यतिरेकदृष्टान्तेषु गौरेष्वमैत्रीतनयेषु सर्वत्र 'यत्र यत्र
१ ‘पर्वतो वह्निमान् धूमात्' इत्यनुमाने वह्निसामान्यस्यापेक्षणात्, न तु वह्निविशेषस्य । नातो कश्चिद्दोष इति भावः । २ अन्वयदृष्टान्ताभासो द्विविध:-दृष्टान्तस्यासम्यग्वचनमदृष्टान्तस्य सम्यग्वचनं च, तत्रायमाद्यः । ३ अन्वयदृष्टान्ताभासस्य ( उदाहरणाभासस्य ) द्वितीयभेदमदृष्टान्तस्य सम्यग्वचनाख्यं दर्शयति अदृष्टान्तेति । ४ अनयोरुदाहरणाभासयोरुदाहरणं स्पष्टमेवेत्यर्थः ।
1 'अनुमातुस्तावन्मात्रा' इति म मु पाठः। 2 मु 'अदृष्टान्तवचनं' नास्ति । तत्र त्रुटितोऽयं पाठः। 3 मु 'मैत्रीतनयः' नास्ति । 4 द प 'सम्मत' पाठः ।