________________
३. परोक्ष-प्रकाशः
१०७ नियोप्नोति, यत्र धूमो वर्त्तते तत्र नियमेनाग्निवर्त्तते इति, सावत्सर्वत्र धूमवति नियमेनाग्निदर्शनात् । धूमस्तु न तथाऽग्नि व्याप्नोति, तस्याङ्गारावस्थस्य धूमं विनापि वर्तनात्।। यत्राग्नितते तत्र नियमेन धूमो2 वर्त्तते इत्यसम्भवात् ।
६८. 'नन्वाइँन्धनमग्नि व्याप्नोत्येव धूम इति चेत् ; अोमिति ब्रमहे । यत्र यत्राविच्छिन्नमूलो3 धूमस्तत्र तत्राग्निरिति यथा, तथैव4 यत्र यत्राऽऽर्दैन्धनोऽग्नि: तत्र तत्र धूम इत्यपि सम्भवात् । वह्निमात्रस्य तु धूमविशेषं प्रति व्यापकत्वमेव,
व्यापकेनैव सहोपलब्धः, व्यापकस्य तु व्याप्याभावेऽप्युपलब्धेरिति भावः । इदं च बौद्धविदुषाऽर्चटेनापि हेतुबिन्दुटीकायां निरूपितम् । व्याप्यव्यापकमधिकृत्यात्र श्लोकः :
व्यापकं तदतन्निष्ठं व्याप्यं तन्निष्ठमेव च । साध्यं व्यापकमित्याहुः साधनं व्याप्यमुच्यते ॥'
प्रमाणमी० टि० पृ० ३७ । १ अथ नायं नियमः यत् 'अग्निरेव धूमं व्याप्नोति, न धूमोऽग्निम्' इति, घमस्याऽप्याऽऽर्टेन्धनाग्निव्यापकत्वदर्शनात् 'यत्राऽऽर्द्वन्धनोऽग्निवर्त्तते तत्र नियमेन घूमो वर्तते' इति, यावत्सर्वत्राऽऽइँन्धनवति धूमोपलब्धः, तथा चाग्नेरपि धूमवद्वयाप्यत्वम्, ततश्च तस्यापि गमकत्वं स्वीकार्यमित्याशयेन शङ्कते नन्विति । २ समाधत्ते अोमिति । आ.न्धनस्याग्ने—मव्याप्यत्वेऽपि वह्निसामान्यस्य तु व्यापकत्वमेव । ततो नोक्तदोष इति भावः । ३ वह्निसामान्यस्य । ४ न व्याप्यत्वमित्यर्थः ।
1 प्रा 'वर्तमानात्', म मु 'वर्तमानत्वात्' 2 ा म मु 'तत्र धूमोऽपि नियमेन' । 3 द 'यत्र यत्रानवच्छिन्नमूलो' । 4 द 'तथा'।